SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 11 // साम्प्रतं मङ्गलसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, सच स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तंअत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि। आह- नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वाददोषः। आह-यद्यावश्यकस्यानुयोगः, तदावश्यकं किमङ्गमङ्गानि? श्रुतस्कन्धः श्रुतस्कन्धाः? अध्ययनमध्ययनानि? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कन्धस्तथाऽध्ययनानि च,शेषास्त्वनादेशा विकल्पा इति / आह-ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव, ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तव्याख्याँऽनियमप्रदर्शनार्थत्वाददोषः, नावश्यंशास्त्रादौ नन्द्यध्ययनार्थकथनं कर्त्तव्यम्, अकृते चाशङ्का संभवति / आह- मङ्गलार्थं शास्त्रादाववश्यमेव नन्द्यभिधानात् कथमनियम इति, अत्रोच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्का भवति / किं च-आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरं च नन्दी, पृथक् श्रुतस्कन्धत्वात् / आह-यद्येवमिह | आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोग इति, उच्यते, शिष्यानुग्रहार्थं न त्वयं नियम इत्यपवादप्रदर्शनार्थं वा, एतदुक्तं भवति- कदाचित्पुरुषाद्यपेक्षया उत्क्रमेणापि अन्यारम्भेऽपि चान्यद्व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्रा आवश्यका०10 एकोनविंशतिगाथाव्याख्याने। ख्यानानि० 1 0 ज्ञानपञ्चकनिरूपकप्रकरणतया नन्द्यध्ययनत्वात् / 7 अङ्गमङ्गानि किमित्याद्यात्मीया। भवति / नोआगमतो भावमङ्गलं हि नन्दी यतः। मप्रदर्शनार्थत्वाददोष इति। शङ्कासंभव इति। ®मूलसूत्रापेक्षया नन्दीव्याख्यानाऽनियमप्रदर्शनाय पक्षान्तरं- किश्वेत्यादि। ®तस्य ज्ञानपञ्चकनिरूपणनिपुणप्रकरणस्यानुयोगः / (r) आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त इत्यस्योपदर्शितस्य नियमस्यापवाद इति। ®पुरुषाद्यपे०।® प्राक् नन्दी पश्चादावश्यकमित्यादिकं क्रम परित्यज्य, अपिना क्रमोऽपि पुरुषाद्यपेक्षया एव। आरब्धस्यापि पुरषाद्यपेक्षयैव व्याख्येति दर्शनायापि चेति / 0.2 उपक्रमादिः, आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्धातनिर्युक्तौ।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy