________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, | नियुक्ति: 78 प्रज्ञापनीयदेशना, वाग्योगश्चसा। // 89 // नि०- केवलणाणेणत्थे णाउंजे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो वयजोग सुयं हवइ सेसं // 78 // इह तीर्थकरः केवलज्ञानेन अर्थान् धर्मास्तिकायादीन् मूर्तामूर्तान् अभिलाप्यानभिलाप्यान् ज्ञात्वा विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्च तदभावात्, सर्वशुद्धौ देशशुद्ध्यभावादित्यर्थः / ये तत्र तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः तान् भाषते तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपिन सर्वानेव भाषते, अनन्तत्वात्, आयुषः परिमितत्वात्, वाचः क्रमवर्तित्वाच्च, किं तर्हि?, योग्यानेव गृहीतृशक्त्यपेक्षया यो हि यावतां योग्य इति / तत्र केवलज्ञानोपलब्धार्थाभिधायकःशब्दराशिःप्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतम्, नामकर्मोदयनिबन्धनत्वात्, श्रुतस्य च क्षायोपशमिकत्वात्, स च श्रुतं भवति शेषम्, शेषमित्यप्रधानम्, एतदुक्तं भवति श्रोतृणां श्रुतग्रन्थानुसारिभावश्रुतज्ञाननिबन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः। अन्ये त्वेवं पठन्ति-वयजोगसुयं हवइ तेसिं स वाग्योगः श्रुतं भवति 'तेषां' श्रोतॄणाम्, भावश्रुतकारणत्वादित्यभिप्रायः / अथवा 'वाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः // 78 // सत्पदप्ररूपणायांच गतिमङ्गीकृत्य सिद्धगतौ मनुष्यगतौ च, इन्द्रियद्वारमधिकृत्य नोइन्द्रियातीन्द्रियेषु, एवं त्रसकायाकाययोः सयोगायोगयोः अवेदकेषु अकषायिषु शुक्ललेश्यालेश्ययोः सम्यग्दृष्टिषु केवलज्ञानिषु केवलदर्शिषु संयतनोसंयतयोः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीत्तनोपरीत्तयोः पर्याप्तनोपर्याप्तयोः बादरनोबादरयोः, संज्ञिषु नोसंज्ञिषु, भव्यनोभव्ययोः, मोक्षप्राप्तिं प्रति भवस्थकेवलिनो भव्यता, चरमाचरमयोः, चरमः- केवली अचरमःसिद्धः भवान्तरप्राप्त्यभावात्, केवलं द्रष्टव्यमिति / पूर्वप्रतिपन्नप्रतिपद्यमानयोजना च स्वबुद्ध्या कर्त्तव्येति / द्रव्यप्रमाणं तु (r) दर्शनिषु। 0 संयतानां नोसंयतासंयतानां चेति (वि.)।