________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, भाग-१ नियुक्ति: 77 केवलज्ञानस्वरूपम्। // 88 // मूर्तामूर्त्तद्रव्यालम्बनत्वात्, छद्मस्थस्य चामूर्त्तदर्शनविरोधादिति / सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः। नानात्वं चानाहारकापर्याप्तकौ प्रतिपद्यमानौन भवतः, नापीतरौ। उक्तं मनःपर्यायज्ञानम्, इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयन्नाह नि० अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणतं / सासयमप्पडिवाइएगविहं केवलन्नाणं // 77 // , इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक् केवलज्ञानमुपन्यस्तम्, अतस्तदर्थोपदर्शनार्थमथशब्द इति, उक्तं च-अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु / सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाः- प्रयोगविनसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनर्थान्तरं तस्य विशेषेण जपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः- परिच्छित्तिः, तत्र भेदोपचारात्, तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणम्, अत एव सर्वद्रव्यक्षेत्रकालभावविषयं तत्, क्षेत्रादीनामपि द्रव्यत्वात्, तच्च ज्ञेयानन्तत्वादनन्तम्, शश्वद्भवतीति शाश्वतम्, तच्च व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह- प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः। आह-अप्रतिपात्येतावदेवास्तु,शाश्वतमित्येतदयुक्तम्, न, अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति / एकविधं एकप्रकारम्, आवरणाभावात् क्षयस्यैकरूपत्वात्, केवलं मत्यादिनिरपेक्षं ज्ञानं संवेदनम्, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः॥ 77 // इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थं देशनां करोति, तीर्थकरनामकर्मोदयात्, ततश्च ध्वनेः श्रुतरूपत्वात् तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भून्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह 0 केवलं नाणं। 0 अतस्तदर्थोऽयमथशब्दः। 0 ज्ञापनम् / // 88 //