SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 87 // पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति: 76 चारित्रवतां नरक्षेत्रविषयं मनःपर्यायम्। 75 इदानीं मनःपर्यायज्ञानम्, लब्धिनिरूपणायांतत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चकक्रमायातमभिधित्सुराह नि०- मणपजवनाणं पुण जणमणपरिचिन्तियत्थपायडणं / माणुसखित्तनिबद्धंगुणपच्चइयं चरित्तवओ॥७६॥ मनःपर्यायज्ञानं प्राक्निरूपितशब्दार्थम्, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनिबन्धनक्षायोपशमिकप्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह- जायन्त इति जनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, तंप्रकटयति प्रकाशयति जनमन:परिचिन्तितार्थप्रकटनम्, मानुषक्षेत्रं- अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धम्, न तदहिर्व्यवस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्त्तत इत्यर्थः। गुणा:- क्षान्त्यादयः त एव प्रत्ययाः- कारणानि यस्य तद्गुणप्रत्ययम्, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमर्शीषध्यादिऋद्धिप्राप्तस्यैवेति गाथार्थः // 76 // इदं द्रव्यादिभिनिरूप्यते-तत्र द्रव्यतोमनःपर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनोभावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनःपर्यायज्ञानिनमधिकृत्यैवम्, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शनमिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोक्तं चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासङ्ख्येयभागं एष्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, बाह्याँस्तु तद्विषयभावापन्नाननुमानतो विजानाति, कुतः?, मनसो 0. पागडणं / 0 आदिना छद्मस्थस्वामिसाधर्म्यम्। 0 भेदवदित्यर्थः10 योगरूढतया नरा एव स्युः, परं संज्ञिपञ्चेन्द्रियग्रहणायैवं व्युत्पादनम्। // 87 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy