________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 85 // नन्दी , लब्धयः। जङ्घाचारणः शक्तितः किल रुचकवरद्वीपगमनशक्तिमान् भवति, सच किलैकोत्पातेनैव रुचकवरद्वीपं गच्छति, आगच्छ पीठिका श्वोत्पातद्वयेनागच्छति, प्रथमेन नन्दीश्वरं द्वितीयेन यतो गतः, एवमूर्ध्वमपि एकोत्पातेनैवाचलेन्द्रमूर्ध्नि स्थितं पाण्डुक ०.१ज्ञान पञ्चकरूपा गच्छति, आगच्छंश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दनवनं द्वितीयेन यतो गतः। विद्याचारणस्तु नन्दीश्वरद्वीपगमनशक्तिमान् . भवति, स त्वेकोत्पातेन मानुषोत्तरं गच्छति, द्वितीयेन नन्दीश्वरम्, तृतीयेन त्वेकेनैवाऽऽगच्छति यतो गतः, एवमूर्ध्वमपि नियुक्तिः 69-70 व्यत्ययो वक्तव्य इति। अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया व्याचक्षत इति / तथा आस्यो- दंष्ट्राः तासु / आमाँषपामस्तीति आसीविषाः, ते च द्विप्रकारा भवन्ति- जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, ध्याद्याः(१६) कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्रारादिति, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वासीविषा भवन्ति, देवा अपितच्छक्तियुक्ता भवन्ति, शापप्रदानेनैवव्यापादयन्तीत्यर्थः / तथा केवलिनश्च प्रसिद्धा एव / तथा मनोज्ञानिनो विपुलमनःपर्यायज्ञानिनः परिगृह्यन्ते / पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुर्दशपूर्वविदः। अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तीर्थकरा इत्यर्थः / चक्रवर्त्तिनः चतुर्दशरत्नाधिपाः षट्खण्डभरतेश्वराः / बलदेवाः प्रसिद्धा एव / वासुदेवाः सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः / एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः॥७०॥ इह वासुदेवत्वं चक्रवर्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापञ्चकं जगाद नियुक्तिकारः 0जवाभ्याम्। 0 सूत्रानुसारेणैकादशः चूर्ण्यनुसारेण तु त्रयोदशः, तत्र अरुणावासशसवरयोरधिकयोर्दर्शनात्। 0चलाद्रि०। 0 पाण्डक०19 तत्रैको O मेषामिति / 70 व सह०।००ठानतो वा०। 7 अपि च। ®लब्धितो ये आसीविषलब्धिमन्तः पञ्चेन्द्रियतिर्यगादयस्ते, देवाः पर्याप्तावस्थायां शापादिना व्यापादने समर्था अपि देवभवप्रत्ययिकत्वान्न तद्विवक्षितमिति अपर्याप्तावस्थायामेवैतद्व्यपदेशो देवानाम् / 8 // 85 //