SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 8 // | नन्दी , लोकप्रमाणावधिः, पुरुषेन लोके देशतोऽभ्यन्तरावधिः, न पुरुषे लोके-शून्यो भङ्गः, न लोके न पुरुषे-बाह्यावधिः, इयं पीठिका भावना-लोकाभ्यन्तरः पुरुषे सम्बद्धोऽसम्बद्धो वा भवति, यस्तु लोकेसम्बद्धः स नियमात्पुरुषे सम्बद्ध इति, अतोभङ्गचतुष्टयं ०.१ज्ञान पञ्चकरूपा तृतीयभङ्गशून्यमिति, अलोकसम्बद्धस्त्वात्मसम्बद्ध एव भवतीति गाथार्थः॥६७॥इदानीं गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह नियुक्ति: 68 गत्याद्यतिदेश नि०- गइनेरइयाईया, हिट्ठाजह वण्णिया तहेव इहं / इड्डी एसा वणिजइत्ति तो सेसियाओऽवि॥६८॥ ऋद्धिकथनतत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परिगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविधयः द्रव्यप्रमाणादयश्च, प्रतिज्ञा च। ते यथा अधस्तान्मतिश्रुतयोः वर्णिताः उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयं- इह ये मतिं प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपकश्रेण्यन्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति,शक्तिमधिकृत्येति भावार्थः / पूर्वप्रतिपन्नास्तु त एव ये मतेः विकलेन्द्रियाँसंज्ञिशून्या इति, उक्तमवधिज्ञानमिति / तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्त-2 द्रव्याणि जानाति पश्यति, क्षेत्रतस्त्वादेशेनासङ्खयेयं क्षेत्रम्, एवं कालमपि, भावतस्त्वनन्तान् भावानिति / तत्र ऋद्धिविशेष एषः अवधिः व्यावर्ण्यते गीयते अतः तत्सामान्यात् शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः॥ 68 // तत्र शेषर्द्धिविशेषस्वरूप-8 0 अवध्युत्पादमन्तरेणैतदुत्पादान्मनःपर्यायज्ञानिनोऽवधेः प्रतिपद्यमानकाः। ॐ प्राच्यनरतिर्यग्भवान्त्यसमयादनन्तरं सुरनारकायुरुदयादेवं व्यपदेशः 'ये अप्रतिपतितसम्यक्त्वास्तिर्यग्मनुष्येभ्यो देवनारका जायन्ते ते' इतिहेमचन्द्रपादाः। 0 विकल्पे वि०। 0 विकलेन्द्रियाणां असंज्ञिनां च सास्वादनसम्यक्त्वान्मतिश्रुतयोः पूर्वप्रतिपन्नता स्यात्, परमवधेस्तु न। 7 उपचारेण /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy