SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 82 // पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति: 67 सम्बद्धाऽसंबद्धाववधी। भवप्रत्ययावधिग्रहणात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थमवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्टम् / आह- यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्य निष्ठत्वात्, केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थः॥६६॥ एवं देशद्वारावयवार्थमभिधायेदानी क्षेत्रद्वारं विवुवूर्षुराह नि०-संखिज्जमसंखिजो, पुरिसमबाहाइ खित्तओ ओही। संबद्धमसंबद्धो, लोगमलोगे य संबद्धो॥६७॥ तत्र सम्बद्धश्चासम्बद्धश्च अवधिर्भवति, किमुक्तं भवति?- कश्चिद्रष्टरि सम्बद्धो भवति, प्रदीपप्रभावत्, कश्चिच्च असम्बद्धो भवति, विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् / तत्र यस्तावदसम्बद्धः असौ सङ्ख्येयः असङ्ख्येयो वा / पूर्णः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति / पुरुषादबाधा, अबाधनमबाधा अन्तरालमित्यर्थः, पुरुषस्याबाधा पुरुषाबाधा तया पुरुषाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थः- असम्बद्धोऽवधिः क्षेत्रतः सङ्घयेयो भवति असङ्खयेयो वा, योजनापेक्षयेति, एवं सम्बद्धोऽपि / एवमवधिः स्वतन्त्रः पर्यालोचितः, इदानीमबाधया चिन्त्यते- अत्र चतुर्भङ्गिका, तत्र सङ्खयेयमन्तरंसङ्खयेयोऽवधिः, सङ्खयेयमन्तरं असङ्खयेयोऽवधिः, असङ्खयेयमन्तरंसङ्खयेयोऽवधिः, असङ्खयेयमन्तरमसङ्खयेयोऽवधिरिति चत्वारोऽपिविकल्पाःसंभवन्ति, सम्बद्धे तु विकल्पाभावः। तथा लोके चतुर्दशरज्वात्मके पञ्चास्तिकायवति, अलोके च केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोके अलोके च सम्बद्धः, कथं?- पुरुषे सम्बद्धो लोके च 0 स्याप्यनष्टत्वात् / ॐ विवरीषु०। 0 कश्चित्त्वसं०। 7 अतिविप्र। 7 नेदं प्रत्यन्तरे।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy