________________ पीठिका ०.१ज्ञानपञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 81 // नन्दी , बाह्मभ्यन्तरा भवति, योजनापेक्षयेति गाथार्थः॥६५॥ इदानीं देशद्वारावयवार्थं प्रचिकटयिषुरिदमाह नि०- णेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुंति / पासंति सव्वओखलु, सेसा देसेण पासंति // 66 // नारकाः प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाच देवाश्च तीर्थकराश्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः अवधेः अवधिज्ञानस्य न बाह्या नियुक्ति: 66 अबाह्या भवन्ति, इदमत्र हृदयं-अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत्, ततश्चार्थादबाह्यावधय वधिमन्तः। एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः / तथा पश्यन्ति सर्वतः सर्वासुदिक्षु विदिक्षुच, खलुशब्दोऽप्येवकारार्थः, सचावधारण एव, सर्वास्वेव दिग्विदिक्ष्विति, सर्वत एवेत्यर्थः। आह- अवधेरबाह्या भवन्तीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् / 'पश्यन्ति सर्वतः' इत्येतदतिरिच्यते इति, अत्रोच्यते, नैतदेवम्, अवधेरबाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीति भावः, न सर्वेसर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, अवधेर्विचित्रत्वाद्, अतोनातिरिच्यत इति, शेषाः तिर्यङ्नरा देशेन इत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधिः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति गाथार्थः। अथवा अन्यथा व्याख्यायतेनारकदेवतीर्थंकरा अवधेरबाह्या भवन्तीति, किमुक्तं भवति?- नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, अतः संशय:- किं ते तेन सर्वतः पश्यन्ति आहोश्विद्देशत इति, अतस्तद्व्यवच्छेदार्थमाह- पश्यन्ति सर्वत एव / आह- यद्येवं पश्यन्ति सर्वतः इत्येतावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थकम्, न, नियतावधित्वस्यैवल // 81 // विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टम् / आह- ननु नारकदेवानां (r) अत्रेष्टितो०।००तीर्थकरा। (r). ति, किमुक्तं भवति?- सदाऽवधेरबाह्या भवन्ति. नियतावधय इत्यर्थः। आह.