________________ ०.१ज्ञान श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 79 // 62-63 व्याख्यातं तीव्रमन्दद्वारम्, इदानीं प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाह पीठिका नि०- बाहिरलंभे भजो, दव्वे खित्ते य कालभावे य / उप्पा पडिवाओऽविय, तं उभयं एगसमएणं // 62 // पञ्चकरूपा नि०- अभितरलद्धीए, उ तदुभयं नत्थि एगसमएणं / उप्पा पडिवाओऽविय, एगयरो एगसमएणं // 63 // नन्दी, तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वा विच्छिन्नः स बाह्यः तस्य लाभो बाह्यलाभः, अब नियुक्तिः गम्यते, अस्मिन् बाह्यलाभे सति- बाह्यावधिप्राप्तौ सत्यां भाज्यो विकल्पनीयः, कोऽसौ?- उत्पादः प्रतिपात तदुभयगुणश्च / बाह्ये एकसमयेनेति सम्बन्धः, किंविषय इति?, आह- द्रव्य इति द्रव्यविषयः, एवं क्षेत्रकालभावविषय इति, अपिचशब्दाः पूरण- उत्पादप्रतिपादौ समुच्चयार्थाः। अयं भावार्थ:- एकस्मिन् समये द्रव्यादौ विषये बाह्यावधेः कदाचिदुत्पादो भवति कदाचिढ्ययः कदाचिदुभयम्, नान्तरे समयेन। दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते / अन्यत्र प्रच्यवत इति गाथार्थः॥६२॥ इह द्रष्टुः सर्वतः सम्बद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः। तुशब्दो विशेषणार्थः, किं विशिनष्टि?- तच्च तदुभयं च तदुभयम्, उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादौ विषये' इत्यनुवर्त्तते, किं तर्हि?- उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारार्थत्वात् / अयं भावार्थ:- प्रदीपस्येवोत्पाद एव प्रतिपातो वा एकसमयेन भवति अभ्यन्तरावधेर्न तूभयम्, अप्रदेशावधित्वादेव, न ोकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गल्याकुञ्चनप्रसारणवदिति ®स्पर्धकरूपकारणाभिधानद्वारेण। 7 तदुभयं चेग०। 0 अनुक्तसमुच्चयार्थत्वात् परिमण्डलाकारोऽपि। 0 अवधेः / 7 तस्मिन् / 0 गुणश्च / ७०विभा० / ©त्पादः प्रति०। समयेनैव /