________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२| // 564 // प्राणिनस्तांश्चासौ हिंसन्नर्चा- शरीरं नो नैवार्चायै हिनस्ति, तथाऽजिनं-चर्म नापि तदर्थम्, एवं मांसशोणितहृदयपित्तवसापिच्छ श्रुतस्कन्धः 2 पुच्छवालशृङ्गविषाणनखस्नाय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं द्वितीयमध्ययनं क्रियास्थानम्, चेति, तथा नो पुत्रपोषणाये ति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, सूत्रम् 18 तथाऽगारं- गृहं तस्य परिबृंहणं- उपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुम्, तथा यत्तेन पालयितुमारब्धं नो / (653) अनर्थदण्डः तस्य शरीरस्य किमपि परित्राणाय तत् प्राणव्यपरोपणं भवति, इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीडया तच्छीलतया व्यसनेन वा प्राणिनां हन्ता भवति दण्डादिभिः, तथा छेत्ता भवति कर्णनासिकाविकर्तनतः, तथा भेत्ता शूलादिना तथा लुम्पयिता अन्यतराङ्गावयवविकर्तनतः, तथा विलुम्पयिता अझ्युत्पाटनचर्मविकतनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निनिमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालवद्वालः- अज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निर्निमित्तमेव पञ्चेन्द्रियप्राणिपीडनतो यथाऽनर्थदण्डो भवति तथा प्रतिपादितम्, अधुना स्थावरानधिकृत्योच्यते- से जहे त्यादि, यथा कश्चित्पुरुषो निर्विवेकः पथि गच्छन् वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति- जे इमे इत्यादि, ये केचन अमी प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा- इक्कडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेयमिक्कडा ममानया प्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादिनिरपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किञ्चित्परित्राणं भविष्यतीति, केवलमेवमेवासौ वनस्पतिं हन्ता छेत्तेत्यादि यावज्जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयं / // 564 //