SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 562 // मित्राणामुपतापेन दोषो मित्रदोषस्तत्प्रत्ययिको दण्डो भवति 10, तथा माया- परवञ्चनबुद्धिस्तया दण्डो मायाप्रत्ययिकः 11, श्रुतस्कन्धः२ तथा लोभप्रत्ययिको-लोभनिमित्तो दण्ड इति 12, तथा पञ्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिर्गुप्तस्य सर्वत्रोपयुक्त द्वितीयमध्ययनं क्रियास्थानम्, स्येर्याप्रत्ययिकः सामान्येन कर्मबन्धो भवति 13, एतच्च त्रयोदशं क्रियास्थानमिति // 16 // 651 // यथोद्देशस्तथा निर्देश सूत्रम् 17 इतिकृत्वा प्रथमात्क्रियास्थानादारभ्य व्याचिख्यासुराह (652) अर्थदण्डक्रिया पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे आयहेउं वा णाइहेउं वा अगारहेउं वा परिवारहेउं वा मित्तहेउं वा णागहेउं वा भूतहेउं वा जक्खहेउं वा तं दंडं तसथावरेहिं पाणेहिं सयमेव णिसिरिति अण्णेणवि णिसिरावेति अण्णंपि णिसिरंतं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए। सूत्रम् 17 // ( // 652 // ) यत्प्रथममुपात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थः, तद्यथा नाम कश्चित्पुरुषः, पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी आत्मनिमित्तं आत्मार्थं तथा ज्ञातिनिमित्तं स्वजनाद्यर्थं तथा अगारं- गृहं तन्निमित्तं तथा परिवारो दासीकर्मकरादिकः परिकरो वा- गृहादेवृत्त्यादिकस्तन्निमित्तं तथा मित्रनागभूतयक्षाद्यर्थं तं तथाभूतं स्वपरोपघातरूपं दण्डं त्रसस्थावरेषु / प्राणिषु स्वयमेव निसृजति निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणी क्रियां करोतीत्यर्थः, तथाऽन्येनापिक कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्ययिकं सावधक्रियोपात्तं कर्म // 12 // आधीयते सम्बध्यते इति / एतत्प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति // 17 // 652 // (r) तथा एवं पञ्चभिः (मु०)। 8
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy