SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः 2] // 561 // स्थानानि एके केचन मनुष्याः पुरुषाः, ते चैवंभूता भवन्तीत्याह, तद्यथा- आराद्याताः सर्वहेयधर्मेभ्य इत्यार्यास्तद्विपरीताश्चानार्या एके श्रुतस्कन्धः२ केचन भवन्ति यावद्दूरूपाः सुरूपाश्चेति / तेषां च आर्यादीनां इदं वक्ष्यमाणमेतद्रूपं दण्डयतीति दण्डः- पापोपादानसंकल्पस्तस्य। द्वितीयमध्ययन क्रियास्थानम्, समादानं-ग्रहणं संपेहाए त्ति संप्रेक्ष्य, तच्च चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति-तंजहे त्यादि, तद्यथा-नारकादिषु, ये सूत्रम् 16 चान्ये तथाप्रकारास्तद्भेदवर्तिनः सवर्णदुर्वर्णादयः प्राणाः प्राणिनो विद्वांसो वेदना- ज्ञानं तद् वेदयन्ति अनुभवन्ति, यदिवा (651) त्रयोदशक्रियासातासातरूपांवेदनामनुभवन्तीति, अत्र चत्वारो भङ्गाः, तद्यथा-संज्ञिनो वेदनामनुभवन्ति विदन्ति च 1 सिद्धास्तु विदन्ति नानुभवन्ति 2 असंज्ञिनोऽनुभवन्ति न पुनर्विदन्ति 3 अजीवास्तु न विदन्ति नाप्यनुभवन्तीति 4, इह पुनः प्रथमतृतीयाभ्यामधिकारो द्वितीयचतुर्थाववस्तुभूताविति, तेषां च नारकतिर्यमनुष्यदेवानां तथाविधज्ञानवतांइमानि वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थकरगणधरादिभिरिति / कानि पुनस्तानीति दर्शयितुमाह- तंजहे त्यादि, तद्यथेत्ययमुदाहरणवाक्योपन्यासार्थः, आत्मार्थाय स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं 1, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव सावधक्रियानुष्ठानमनर्थदण्डः२, तथा हिंसनं हिंसा- प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः३, तथाऽकस्माद् अनुपयुक्तस्य दण्डोऽकस्माद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति 4, तथा दृष्टेर्विपर्यासो- रज्ज्वामिव सर्पबुद्धिस्तया दण्डो दृष्टिविपर्यासदण्डः, तद्यथा- लेष्ठुकादिबुद्ध्या शराद्यभिघातेन चटकादिव्यापादनं 5, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिह्नवासद्भूतारोपणरूपः 6, तथा अदत्तस्य परकीयस्याऽऽदानं-स्वीकरणमदत्तादानं स्तेयं तत्प्रत्ययिको दण्ड इति 7, तथाऽऽत्मन्यध्यध्यात्म तत्र भव आध्यात्मिको दण्डः, तद्यथा-निर्निमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठते 8, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति 9, तथा // 561 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy