________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 557 // क्रियास्थान ॥अथ द्वितीयमध्ययनं क्रियास्थानाख्यम् / श्रुतस्कन्ध:२ व्याख्यातं प्रथमाध्ययनम्, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने पुष्करिणीपौण्डरीक-8 द्वितीयमध्ययनं क्रियास्थानम्, दृष्टान्तेन तीर्थिकाः सम्यमोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः, सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्त-- नियुक्तिः त्त्वान्मोचकाः सदुपदेशदानतोऽपरेषामपीति / तदिहापि यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते 165-168 तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं सम्बन्धः, तद्यथा- भिक्षुणा चरणकरणविदा कर्म योनिक्षेपाः क्षपणायोद्यतेन द्वादश क्रियास्थानानि-कर्मबन्धकारणानि सम्यक्परिहर्तव्यानि, तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा- कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्विमोक्षश्चेति / नामनिष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थं प्रस्तावमारचयनियुक्तिकृदाह नि०-किरियाओ भणियाओ किरियाठाणंति तेण अज्झयणं / अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य॥१६५ / / नि०-दव्वे किरिएजणया य पयोगुवायकरणिज्जसमुदाणे / इरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते // 166 // नि०- नामं ठवणा दविएखेत्तेऽद्धा उह उवरती वसही। संजमपग्गहजोहे अचलगणण संधणा भावे // 167 // नि०- समुदाणियाणिह तओ संमपउत्ते य भावठाणंमि। किरियाहिं पुरिस पावाइए उसव्वे परिक्खेजा॥१६८॥ 8 // 557 // तत्र क्रियन्त इति क्रियास्ताश्च कर्मबन्धकारणत्वेनाऽऽवश्यकान्तर्वर्तिनि प्रतिक्रमणाध्ययने पडिक्कमामि तेरसहिं किरिया© आचाराङ्गवृत्तिः ‘पत्रे'।