________________ श्रीसूत्रकृताङ्गं | नियुक्ति| श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 558 // ठाणेहिं' ति अस्मिन्सूत्रेऽभिहिताः॥१६५॥ यदिवा इहैव क्रियाः भणिता अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते।। श्रुतस्कन्ध:२ द्वितीयमध्ययन तच क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनर क्रियास्थानम्, भिहितो बन्धे तथा मोक्षमार्गे चेति // 166 // तत्र नामस्थापने सुगमत्वादनादृत्य द्रव्यादिकां क्रियां प्रतिपादयितुमाह-तत्र द्रव्ये नियुक्तिः द्रव्यविषये या क्रिया एजनता ‘एज़ कम्पने' जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावासा द्रव्यक्रिया, सापि प्रयोगाद्विन- 165-168 क्रियास्थानसया वा भवेत्, तत्राप्युपयोगपूर्विका वाऽनुपयोगपूर्विका वा अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रियेति / भावक्रिया / / योनिक्षेपाः त्वियम्, तद्यथा- प्रयोगक्रिया उपायक्रिया करणीयक्रिया समुदानक्रिया ईर्यापथक्रिया सम्यक्त्वक्रिया सम्यङ्गिथ्यात्वक्रिया मिथ्यात्वक्रिया चेति / तत्र प्रयोगक्रिया मनोवाक्कायलक्षणा त्रिधा, तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाक्काययोरपि वक्तव्यम्, तत्र शब्दे निष्पाद्ये वाकाययोर्द्वयोरप्युपयोगः, तथा चोक्तं-गिण्हइ य काइएणं णिसिरइ तह वाइएण जोगेण गमनादिका तु कायक्रियैव 1, उपायक्रिया तु घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा-मृत्खननमर्दनचक्रारोपणदण्डचक्रसलिलकुम्भकारव्यापार्यावद्भिरुपायैः क्रियते सा सर्वोपायक्रिया 2, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि- घटो मृत्पिण्डादिकयैव सामग्र्या क्रियते न पाषाणसिकतादिकयेति 3, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया यया व्यवस्थाप्यते सा समुदानक्रिया, साच मिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति 4, ईर्यापथक्रिया तूपशान्तमोहादारभ्य सयोगिकेवलिनं यावदिति 5, सम्यक्त्वक्रिया तु सम्यग्दर्शनयोग्याः / कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते 6, सम्यमिथ्यात्वक्रिया तु तद्योग्याः प्रकृतीश्चतुःसप्ततिसंख्या (c). यं द्रष्टव्या प्र० / (r) काययोगयुक्तस्य / प्रयोजनं व्यापारः। ॐ गृह्णाति च कायिकेन निस्सारयति वाचिकेन योगेन / // 558 //