________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 556 // प्रदर्घ्य दृष्टान्तभूतपौण्डरीकाऽऽधारायाः पुष्करिण्या दुरवगाहित्वं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह- जलमाले त्यादि, श्रुतस्कन्धः 2 जलमालां- अत्यर्थप्रचुरजलांतथा कर्दममाला- अप्रतिष्ठिततलतया प्रभूततरपङ्कां तथा बहुविधवल्लिगहनां च पुष्करिणी जङ्घाभ्यां प्रथममध्ययनं पौण्डरीकम्, वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणीम्, दृष्टुति क्रियाध्याहारः॥ 161-162 // किंचान्यत्- पउमं इत्यादि, तन्मध्ये नियुक्तिः पद्मवरपौण्डरीकं गृहीत्वा समुत्तरतोऽवश्यं व्यापत्तिः प्राणानां भवेत्, किं तत्र कश्चिदुपायः स नास्ति? येनोपायेन गृहीतकमलः |158-164 जिनोपदेशने सन्तांपुष्करिणीमुल्लङ्घयेदविपन्न इति // तदुल्लङ्घनोपायं दर्शयितुमाह- विद्या वेत्यादि, विद्या वा काचित्प्रज्ञप्त्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपन्नो गृहीतपौण्डरीकः सन्नुल्लङ्घयेत्तांपुष्करिणीम्, एष च जिनैरुपायः समाख्यात इति // 163 // सर्वोपसंहारार्थमाह- सुद्धप्पे त्यादि, शुद्धप्रयोगविद्या सिद्धा जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति / गतोऽनुगमः, साम्प्रतं नयाः, तेच पूर्ववदृष्टव्या इति // 164 // समाप्तं पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति॥ सिद्धिः ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ प्रथममध्ययनं पौण्डरीकाख्यं समाप्तमिति // // 556 //