SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 554 / / संयमो विमोक्षो वा कारणे कार्योपचारं कृत्वा तं प्रतिपन्नो नियागप्रतिपन्नः, स चैवंभूतः पञ्चमपुरुषजातः, तं चाश्रित्य तत्- श्रुतस्कन्ध:२ यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्तम्,स च प्राप्तो वा स्यात्पद्मवरपौण्डरीकं-अनुग्राह्यं पुरुषविशेषं चक्रवादिकम्, तत्प्राप्तिश्च प्रथममध्ययन पौण्डरीकम्, परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति, साक्षाद्यथाऽवस्थितवस्तुस्वरूपपरिच्छित्तेः, अप्राप्तो वा स्यात् मतिश्रुतावधि -3 सूत्रम् 15 मनःपर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः, स चैवंभूतः प्राग्व्यावर्णितगुणकलापोपेतो भिक्षुः परि- समन्तात् ज्ञातं कर्म (650) अहिंसापरिस्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा, तथा परिज्ञातः सङ्ग:-सम्बन्धः सबाह्याभ्यन्तरो येन स तथा, परिज्ञातो भावना साधोः निःसारतया गृहवासो येन स तथा, तथा उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सह हितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः- समन्वितः, सदा सर्वकालं यतः संयतः प्राग्व्यावर्णितनियमकलापोपेतः, स एवंगुणकलापान्वित एतद्वचनीयः, तद्यथा-श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः - उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसृभिर्गुप्तिभिर्गुप्तः, तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा मनुते जगतस्त्रिकालावस्थामिति मुनिः, तथा कृतमस्यास्तीति कृती पुण्यवान् परमार्थपण्डितोवा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारत्वेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं- मूलगुणाः क्रियत इति करणं- उत्तरगुणास्तेषां पारं- तीरं पर्यन्तगमनं तद्वेत्तीति चरणकरणपारविदिति / इतिशब्दः परिसमाप्तौ / ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य एवं भणति- यथाऽहं न स्वमनीषिकया ब्रवीमीति ॥१५॥६५०॥साम्प्रतंसमस्ताध्ययनोपात्तदृष्टान्तदान्तिकयो ®स तथा, उपशान्तः (मु०)। // 554 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy