SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 553 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधो: गुरोर्वाऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननम्, साम्प्रतमुपसंहारद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह- अतिपतनं-2 अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासावतिपातिकस्तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्त्वानां धर्ममनुविविच्यानुविचिन्त्य वा कीर्तयेत् कथयेत्, इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति ॥साम्प्रतं धर्मकीर्तनं यथा निरुपधं भवति तथा दर्शयितुमाह-स भिक्षुः परकृतपरनिष्ठिताहारभोजी यथाक्रियाकालानुष्ठायी शुश्रूषत्सु धर्म कीर्तयेत् नान्नस्य हेतोर्ममायमीश्वरोधर्मकथाप्रवणो विशिष्टमाहारजातंदास्यतीत्येतन्निमित्तं न धर्ममाचक्षीत, तथा पानवस्त्रलयनशयननिमित्त न धर्ममाचक्षीत, अन्येषां वा विरूपरूपाणां- उच्चावचानां कार्याणां कामभोगानांवा निमित्तं न धर्ममाचक्षीत तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्चान्यत्र न धर्मं कथयेद्, अपरप्रयोजननिरपेक्ष एव धर्मं कथयेदिति ॥धर्मकथाश्रवणफलदर्शनद्वारेणोपसंजिघृक्षुराह- इह खलु तस्से त्यादि, इह अस्मिन् जगति खलु वाक्यालङ्कारे तस्य भिक्षोर्गुणवतः अन्तिके समीपे पूर्वोक्तविशेषणविशिष्टं धर्मं श्रुत्वा निशम्य अवगम्य सम्यगुत्थानेनोत्थाय वीराः कर्मविदारणसहिष्णवो ये चैवंभूतास्ते एवं पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सर्वस्मिन्नपि मोक्षकारणे सम्यग्दर्शनादिके उप-सामीप्येन गताः सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्य। उपरताः सर्वोपरताः तथा त एव सर्वोपशान्ता जितकषायतया शीतलीभूताः, तथा त एव सर्वात्मतया- सर्वसामर्थ्येन सदनुष्ठाने उद्यमं कृतवन्तो ये चैवंभूतास्तेऽशेषकर्मक्षयं कृत्वा परि-समन्तानिवृताः परिनिर्वृताः अशेषकर्मक्षयं कृतवन्तः, इति ब्रवीमीति पूर्ववत् ॥साम्प्रतमध्ययनोपसंहारार्थमाह-एव मिति पूर्वोक्तविशेषणकलापविशिष्टः स भिक्षुः पुनरपि सामान्यतो विशिष्यतेधर्म:- श्रुतचारित्राख्यस्तेनार्थी धर्मार्थी, यथावस्थितं परमार्थतो धर्म सर्वोपाधिविशुद्धं जानातीति धर्मवित्, तथा नियाग: 7 निरुपधि (मु०)। // 553 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy