SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 552 // संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत्, एतदुक्तं भवति-यथाऽहिर्बिलं प्रविशन् तूर्णं / श्रुतस्कन्धः२ प्रविशति एवंसाधुनाऽप्याहारस्तत्स्वादमनास्वादयताशीघ्रं प्रवेशयितव्य इति, यदिवा सणेवाहारोऽलब्ध्वाऽस्वादमभ्यवहार्यत प्रथममध्ययन पौण्डरीकम्, / इति। तदेव चाहारजातं दर्शयितुमाह- अन्नं भक्तं अन्नकाले सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरःपश्चात्कर्मपरिहृतं सूत्रम् 15 भवति यथोक्तभिक्षाटनेन, ग्रहणकालावाप्तं भैक्षं परिभोगकाले भुञ्जीत, तथा पानकं पानकाले, नातितृषितो भुञ्जीत (650) अहिंसापरिनाप्यतिबुभुक्षितः पानकं पिबेदिति, तथा वस्त्रं वस्त्रकाले गृह्णीयाद्, उपभोगं वा कुर्यात्, तथा लयनं गुहादिकमाश्रयस्तस्य / भावना साधोः वर्षास्ववश्यमुपादानं अन्यदा त्वनियमः, तथा शय्यतेऽस्मिन्निति शयनं-संस्तारकःसच शयनकाले, तत्राप्यगीतार्थानांप्रहरद्वयं निद्राविमोक्षोगीतार्थानांप्रहरमेकमिति॥स भिक्षुराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन् अन्यतरां दिशमनुदिशं वा प्रतिपन्नः समाश्रितो धर्ममाख्यापयेत्- प्रतिपादयेत् यद्येन विधेयं तद्यथायोगं विभजेद् धर्मफलानि च कीर्तयेद्आविर्भावयेत्, तच्च धर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु शिष्येषु अनुपस्थितेषुवा-कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु / श्रोतुं प्रवृत्तेषु स्वपरहिताय प्रवेदयेद् आवेदयेत्प्रकथयेदितियावत् / श्रोतुमुपस्थितेषु यत्कथयेत्तदर्शयितुमाह-संतिविरइं इत्यादि। शान्तिः- उपशमः क्रोधजयस्तत्प्रधानाप्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्तिः- अशेषक्लेशोपशमरूपा तस्यै- तदर्थं विरतिः शान्तिविरतिस्तां कथयेत्, तथा उपशमं इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं तथा निर्वृति। निर्वाणमशेषद्वन्द्वोपरमरूपं तथा सोयवियं ति शौचं तदपि भावशौचं सर्वोपाधिविशुद्धता व्रतामालिन्यं अज्जवियं ति आर्जर्वअमायित्वं तथा मार्दवं- मृदुभावः सर्वत्र प्रश्रयवत्त्वं विनयनम्रतेतियावत्, तथा लाघवियं ति कर्मणां लाघवापादनं कर्म©रो लब्ध्वा (मु०)। (c) चाहारादिकं (प्र०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy