________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 551 // परकृतपरनिष्ठिते चत्वारो भङ्गाः, तद्यथा-तस्य कृतं तस्यैव च निष्ठितम्, तस्य कृतमन्यस्य निष्ठितम्, अन्यस्य कृतं तस्यैव श्रुतस्कन्धः२ निष्ठितम्, अन्यस्य कृतमन्यस्य निष्ठितमित्ययं चतुर्थो भङ्गः सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यस्य निष्ठितत्वात्, प्रथममध्ययन पौण्डरीकम्, तत्राधाकर्मोद्देशिकादय उद्गमदोषाः षोडश तथोत्पादनादोषा धात्रीदूत्यादिकाः षोडशैव तथैषणादोषाः शङ्कितादयो दश, सूत्रम् 15 एवमेभिर्द्विचत्वारिंशद्दोषै रहितत्वाच्छुद्धम्, तथा शस्त्रं- अग्न्यादिकं तेनातीतं- प्रासुकीकृतं शस्त्रपरिणामित मिति शस्त्रेण (650) अहिंसापरिस्वकायपरकायादिना निर्जीवीकृतं वर्णगन्धरसादिभिश्च परिणमितम्, हिंसां प्राप्तं हिंसितं विरूपं हिंसितं विहिंसितं-नसम्यक् / भावना साधोः निर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादविहिंसितम्, निर्जीवमित्यर्थः, तदप्येषितं-अन्वेषितं भिक्षाचर्याविधिना प्राप्तम्, वेषिक मिति केवलसाधुवेषावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तादिना वोत्पादितम्, तदपिसामुदानिक समुदान-भिक्षासमूहस्तत्र भवं सामुदानिकम्, एतदुक्तं भवति- मधुकरवृत्त्याऽवाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः / तथा प्रज्ञस्येदं प्राज्ञं-गीतार्थेनोपात्तमशनं-आहारजातम्, तदपि वेदनावैय्यावृत्त्यादिके कारणे सति, तत्रापि प्रमाणयुक्तं नातिमात्रम्, प्रमाणंचेदं-अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए। वाउपवियारणट्ठा छब्भागं ऊणयं कुज्जा // 1 // इति / एतदपि न वर्णबलाद्यर्थं किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह- तद्यथा- अक्षस्योपाञ्जनं- अभ्यङ्गो व्रणस्य च लेपनंप्रलेपस्तदुपमया आहारमाहरेत्, तथा चोक्तं- अब्भंगेण व सगडं ण तरइ विगई विणा उ जो साहू / सो रागदोसरहिओ मत्ताएँ विही तंसेवे ॥१॥एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्तते सा तथा तया 0 वैषिक (मु०)। 0 अर्द्धमशनस्य सव्यञ्जनस्य कुर्याद्दवस्य द्वौ भागौ वातप्रविचारणार्थं षष्ठ भागमूनं कुर्यात् // 1 // 0 अभ्यङ्गेनेव शकटं न शक्नोति विकृति विनैव यः साधुः। स रागद्वेषरहितो मात्रया विधिना तां सेवेत // 1 //