SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 549 // (650) न स्यात्-तद्विपर्ययोऽपि वा स्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुं युज्यते इति, सिद्धिश्चाष्टप्रकारे / श्रुतस्कन्धः२ तद्यथा- अणिमा यं तद्यथा-१लघिमा 2 महिमा 3 प्राप्तिः 4 प्राकाम्यं 5 ईशित्वं 6 वशित्वं 7 यत्रकामावसायित्वमिति प्रथममध्ययन पौण्डरीकम्, 8, तदेवमैहिकार्थमामुष्मिकार्थं कीर्तिवर्णश्लोकाद्यर्थं च तपोन विधेयमिति स्थितम् ॥साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु / सूत्रम् 15 विषयेषु रागद्वेषाभावं दर्शयितुमाह-स भिक्षुः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु अमूर्च्छितः अगृद्धोऽनध्युपपन्नः, तथा / अहिंसापरिरासभादिशब्देषु कर्कशेषु अद्विष्टः, एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमिति / पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह भावनासाधोः विरए कोहाओ इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादि सुगमं यावदिति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खु त्ति, स भिक्षुर्भवति यो महतः कर्मोपादानादुपशान्तः सत्संयमे वोपस्थितः सर्वपापेभ्यश्च विरतः प्रतिविरत इति // एतदेव च महतः कर्मोपादानाद्विरमणं साक्षाद्दर्शयितुमाह- जे इमे इत्यादि, ये केचन त्रसाः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि नो नैव स्वयं सत्साधवः समारभन्ते प्राण्युपमर्दकमारम्भं नारम्भन्त इतियावत्, तथा नान्यैः समारम्भयन्ते न चान्यान् समारभमाणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति ॥साम्प्रतं कामभोगनिवृत्तिमधिकृत्याह-जे इमे इत्यादि, ये केचनामी काम्यन्त इति कामा भुज्यन्त इति भोगाः, ते च सचित्ता अचित्ता वा भवेयुः, तांश्च न स्वतो गृह्णीयान्नाप्यन्येन ग्राहयेत् / नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति॥ साम्प्रतं सामान्यतः साम्परायिककर्मोपादाननिषेध-8 मधिकृत्याह- यदपीदं संपर्येति तासु तासु गतिष्वनेन कर्मणेति सांपरायिकम्, तच्च तत्प्रदोषनिह्नवमात्सर्यान्तरायाशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयत इति ॥साम्प्रतं भिक्षाविशुद्धिमधिकृत्याह ७०रेयम्-अणिमा (मु०)इच्छाऽनभिघातः। स्थावरेष्वप्याज्ञाकारित्वं। ईशत्वं (मु०)भूमावप्युन्मज्जननिमज्जने / सत्यसंकल्पता। तत्प्रद्वेष (मु०) / // 549 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy