SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 548 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधोः कासाद्यपनयनार्थं तं धूमंयोगवर्तिनिष्पादितमापिबेदिति ॥साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराह-(ग्रन्थाग्रं 9000) स मूलोत्तरगुणव्यवस्थितो भिक्षुर्नास्य क्रिया- सावद्या विद्यते इत्यक्रियः, संवृत्तात्मकतया सांपरायिकर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूषकः- अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यते क्रोधो अस्येत्यक्रोधः, एवममानोऽमायोऽलोभः कषायोपशमाच्चोपशान्तः- शीतीभूतस्तदुपशमाच्च परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति- नो आसंसं इत्यादि, नो नैवाशंसां पुरस्कृत्य ममानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवंभूतामाशंसांन पुरस्कुर्यादिति, एतदेव दर्शयितुमाह- इमेण मे इत्यादि, अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामोषध्यादिना तथा पारलौकिकेन च श्रुतेनार्द्रकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन, तथा मएण वत्ति 'मन ज्ञाने' जातिस्मरणादिना ज्ञानेन, तथाऽऽचार्यादेः सकाशाद्विज्ञातेन-अवगतेन ममापि विशिष्टं भविष्यतीत्येवं नाशंसां विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रामात्रावृत्तिना धर्मेणानुष्ठितेन इतः अस्माद्भवाच्च्युतस्य प्रेत्य जन्मान्तरे स्यामहं देवः, तत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुःअशेषकर्मवियुतो वा सिद्धोऽदुःखः अशुभः शुभाशुभकर्मप्रकृत्यपेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, यदिवा विशिष्टतपश्चरणादिनाऽऽगामिनि काले ममाणिमालघिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिद्ध्या सिद्धोऽहमदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् / तदकरणे च कारणमाह- एत्थवि इत्यादि, अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिनिमित्ताद्दुष्प्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात्, तथा चोक्तं- जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मोक्खे इत्यादि / यदिवाऽत्राप्यणिमाद्यष्टगुणकारणे तपश्चरणादौ सिद्धिः स्यात्कदाचिच्च // 54 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy