SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 547 // श्रुतस्कन्धः२ प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधोः घातादिना परिताप्यमानस्याग्न्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा अपद्राव्यमानस्य मार्यमाणस्य यावल्लोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः कथश्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तत्रैतेषां दण्डादिनाऽऽकुट्यमानानां यावल्लोमोत्खननमात्रमपि दुःखं प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पन्नं ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या नाज्ञापयितव्या बलात्कारेण व्यापारेन प्रयोक्तव्याः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः॥ सोऽहं ब्रवीमि, एतत् न स्वमनीषिकया किंतु सर्वतीर्थकराज्ञयेति दर्शयति-जे अतीए इत्यादि, ये केचन तीर्थकृत ऋषभादयोऽतीता येच विदेहेषु वर्तमानाः सीमन्धरादयो ये चागामिन्यामुत्सर्पिण्यां भविष्यन्ति पद्मनाभादयः अर्हन्तः अमरासुरनरेश्वराणां पूजार्हा भगवन्त- ऐश्वर्यादिगुणकलापोपेताः सर्वेऽप्येवं ते व्यक्तवाचा आख्यान्ति प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदिभाषन्ते, स्वत एव, न यथा बौद्धानां बोधिसत्त्वप्रभावात् कुड्यादिदेशनत इति, एवं प्रकर्षण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वेप्राणान हन्तव्या इत्यादि, एष धर्मः प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो ध्रुवः अवश्यंभावी नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं च अभिसमेत्य केवलज्ञानेनावलोक्य लोकं चतुर्दशरज्ज्वात्मकं खेदज्ञैः तीर्थकृद्भिः प्रवेदितः कथित इत्येवं सर्वं ज्ञात्वा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताद्यावत्परिग्रहादिति, एतदेव दर्शयितुमाह- णो दंत इत्यादि, इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्र अपरिग्रहो- निष्किञ्चनःसन् साधु! दन्तप्रक्षालनेन कदम्बादिकाष्ठेन दन्तान् प्रक्षालयेत् तथा नो अञ्जनं सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात् तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य स्वीयवस्त्राणां वा धूपनं कुर्यात् नापि // 547 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy