________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 542 // तदेवं प्राणातिपातं प्रदर्श्य भोगाङ्गभूतं परिग्रहं दर्शयितुमाह- इह खलु इत्यादि, इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः सन्ति। श्रुतस्कन्धः 2 श्रमणा ब्राह्मणाश्च, ते च सारम्भपरिग्रहत्वात् किं कुर्वन्तीति दर्शयति- य इमे प्रत्यक्षाः कामप्रधाना भोगाः कामभोगाः काम्यन्त प्रथममध्ययन पौण्डरीकम्, इति कामाः- स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगा:- स्रक्चन्दनवादित्रादयः, त एते सचित्ताः- सचेतना अचेतना वा सूत्रम् 14 भवेयुः, तदुपादानभूता वाऽर्थाः, तांश्च सचित्तानचित्तान्वाऽर्थान् ते कामभोगार्थिनो गृहस्थादयः स्वत एव परिगृह्णन्ति अन्येन च। गृहस्थादिनां परिग्राहयन्ति अपरं च परिगृह्णन्तं समनुजानत इति / साम्प्रतमुपसंजिघृक्षुराह- इह खलु इत्यादि, इह- अस्मिन् जगति सन्ति विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भाः सपरिग्रहा इत्येवं ज्ञात्वा स भिक्षुरेवमवधारयेद् अहमेवात्र खल्वनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतन्निश्रया-तदाश्रयेण ब्रह्मचर्य-श्रामण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यांकरिष्याम इत्यर्थः। ननु च यदि तन्निश्रया पुनरपि विहर्तव्यं किमर्थं ते त्यज्यन्त इति जाताशङ्कः पृच्छति- कस्य हेतोः केन कारणेन? तदेतद्हस्थश्रमणब्राह्मणत्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा- पूर्वं आदौसारम्भपरिग्रहत्वं तेषां तथा पश्चादपि सर्वकालमपि गृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा पूर्वं गृहस्थभावे सारम्भाः सपरिग्रहास्तथा अपरस्मिन्नपि प्रव्रज्याकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाह- यथा अपरं अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपिगृहस्थभावादावपीति, यदिवा-कस्य हेतोस्तद्गृहस्थाद्याश्रयणं क्रियते यतिनेत्याह- यथा पूर्व प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकंगृहस्थायत्तं तथा पश्चादपि, अतः कथं नुनामानवद्या वृत्तिर्भविष्यतीत्यतःसाधुभिरनारम्भैः सारम्भाश्रयणं विधेयम्। (r) प्रव्रज्यारम्भकाले (मु०)।