SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 543 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 14 गृहस्थादिनां परिग्रहत्वम् यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाश्च तथा प्रत्यक्षेणैवोपलभ्यन्त इति दर्शयितुमाह-अंजू इति व्यक्तमेतदेते गृहस्थादयो यदिवा- अङ्ग् इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहारम्भाच्च सत्संयमानुष्ठानेन चानुपस्थिता:सम्यगुत्थानमकृतवन्तो येऽपि कथञ्चिद्धर्मकरणायोत्थितास्तेऽप्युद्दिष्टभोजित्वात्सावधानुष्ठानपरत्वाच्च गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपि तादृशा एव- गृहस्थकल्पा एवेति // साम्प्रतमुपसंहरति- य इमे- गृहस्थादयस्ते द्विधाऽपि सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददते यदिवा रागद्वेषाभ्यामुभाभ्यामपि यदिवा गृहस्थप्रव्रज्या- पर्यायाभ्यामुभाभ्यां पापानि कुर्वत इत्येवं संख्याय परिज्ञाय द्वयोरप्यन्तयोः आरम्भपरिग्रहयो रागद्वेषयोर्वा अदृश्यमानः अनुपलभ्यमानो यदिवा रागद्वेषयोर्यावन्तौ- अभावी तयोरादिश्यमानो- रागद्वेषाभाववृत्तित्वेनापदिश्यमानः सन्नित्येवंभूतो भिक्षुः भिक्षणशीलोऽनवद्याहारभोजी सत्संयमानुष्ठाने रीयेत प्रवर्तेत्, एतदुक्तं भवति- य इमे ज्ञातिसंयोगा यश्चायं धनधान्यादिकः परिग्रहो यच्चेदं हस्तपादाद्यवयवयुक्तं शरीरकं यच्च तदायुर्बलवर्णादिकं तत्सर्वमशाश्वतमनित्यं स्वप्नेन्द्रजालसदृशमसारम्, गृहस्थश्रमणबाह्मणाश्च सारम्भाः सपरिग्रहाश्च, एतत्सर्वं परिज्ञाय सत्संयमानुष्ठाने भिक्षू रीयेतेति स्थितम् // स पुनरप्यहमधिकृतमेवार्थं विशेषिततरंसोपपत्तिकं ब्रवीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकाया दिशोऽन्यतरस्याः समायातःस भिक्षुर्द्वयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन् एवं अनन्तरोक्तेन प्रकारेण ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिज्ञातकर्मा भवति / पुनरपि एव मिति परिज्ञातकर्मत्वाव्यपेतकर्मा भवति- अपूर्वस्याबन्धको भवतीत्यर्थः, पुनरेवमित्यबन्धकतया योगनिरोधोपायत: पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति, एतच्च तीर्थकरगणधरादिभितिज्ञेयै 7. येत् तिष्ठेत् (प्र०)। // 543 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy