SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 540 // वयसः परिणामात्- कालकृतावस्थाविशेषात् परिजूरइ त्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति, तस्मिंश्च: श्रुतस्कन्धः 2 प्रतिसमयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्धश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादि- हान्याऽपचीयते, प्रथममध्ययनं पौण्डरीकम्, आवीचीमरणेन प्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि- यौवनावस्थायाश्च्यवमाने शरीरके प्रतिक्षणं जातक्षण सूत्रम् 13 शिथिलीभवत्सु सन्धिबन्धनेषु बलादवश्यंभ्रश्यते,तथा वर्णात्त्वचश्छायातोऽपचीयते,अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा (648) भिक्षुस्वरूपः जीर्यति शरीरे श्रोत्रादीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलम्, तथा चोक्तं- बाल्यं वृद्धिर्वयो मेधा त्वक्चक्षुःशुक्रविक्रमाः। आर्याद्यानराः दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च॥१॥तथा विशिष्टवयोहान्या सुसन्धितः सुबद्धः सन्धिः-जानुकूर्परादिको विसन्धिर्भवति / विगलितबन्धनोभवतीत्यर्थः, तथा वलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगकृद्भवति किंपुनरन्येषां?, तथा चोक्तं- वलिसंततमस्थिशोषितं, शिथिलस्नायुवृतं कडेवरम् / स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः?॥१॥ तथा कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलतांप्रतिपद्यन्ते, तदेवं वयःपरिणामापादितसन्मतिरेतद्भावयेत्, तद्यथायदपीदं शरीरमुदारं-शोभनावयवरूपोपेतं विशिष्टाहारोपचितम्, एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्यं भविष्यतीत्येतदवगम्य शरीरानित्यतया संसारासारतां संख्याय अवगम्य परित्यक्तसमस्तगृहप्रपञ्चो निष्किञ्चनतामुपगम्य स भिक्षुर्देहदीर्घसंयमयात्रार्थं भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति / तदेव लोकद्वैविध्यं दर्शयितुमाह- तद्यथाजीवाश्च- प्राणधारणलक्षणास्तद्विपरीताश्चाजीवा- धर्माधर्माकाशादयः, तत्र तस्य भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयितुमाह- जीवा अप्युपयोगलक्षणा द्विधा, तद्यथा- त्रस्यन्तीति त्रसा- द्वीन्द्रियादयः तथा तिष्ठन्तीति स्थावरा:पृथिवीकायादयः। तेऽपि सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा व्यापारः प्रवर्तते / / // 540 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy