________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 539 // तथा प्रत्येकं झञ्झा- कलहस्तद्हणात्कषायाः परिगृह्यन्ते, ततः प्रत्येकमेवासुमतां मन्दतीव्रतया कषायोद्भवो भवति, तथा श्रुतस्कन्धः२ संज्ञानं संज्ञा-पदार्थपरिच्छित्तिः, साऽपि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्य प्रथममध्ययन पौण्डरीकम्, वस्थितत्वात्, तथा प्रत्येकमेव मन्नत्ति मननं चिन्तनं पर्यालोचनमितियावत्, तथा प्रत्येकमेव विष्णु त्ति विद्वान्, तथा प्रत्येकमेव / सूत्रम् 13 सातासातरूपवेदना-सुखदुःखानुभवः, उपसंजिघृक्षुराह- इति खलु इत्यादि, इति एवं पूर्वोक्तेन प्रकारेण यतो नान्येन कृतमन्यः / (648) भिक्षुस्वरूप: प्रतिसंवेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमीज्ञातिसंयोगा:-स्वजनसम्बन्धाः संसारचक्रवाले पर्यटतोऽत्यन्त आर्याद्यानराः पीडितस्य तदुद्धरणे न त्राणाय- न त्राणं कुर्वन्ति, नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति?, यतः पुरुष एकदा क्रोधोदयादिकाले ज्ञातिसंयोगान् विप्रजहाति परित्यजति, 'स्वजनाश्च न बान्धवा' इति व्यवहारदर्शनात्, ज्ञातिसंयोगा वैकदा तदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-स्वसम्बन्धादुत्तारयन्ति / तदेवं व्यवस्थिते एतद्भावयेत्, तद्यथा-अन्ये खल्वमी ज्ञातिसंयोगा मत्तो भिन्ना इत्वरा एभ्यश्चान्योऽहमस्मि। तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैर्जातिसंयोगैमूंछौं कुर्मः?, न तेषु / मूर्छा क्रियमाणा न्याय्या इत्येवं संख्याय ज्ञात्वा प्रत्याकलय्य वयमुत्पन्नवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसायिनो विदितवेद्या भवन्तीति // साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स मेधावी सश्रुतिक एतद् वक्ष्यमाणं जानीयात्, तद्यथा- बाह्यतरमेतत् यज्ज्ञातिसम्बन्धनम्, इदमेवान्यदुपनीततरं-आसन्नतरम्, शरीरावयवानां भिन्नज्ञातिभ्य आसन्नतरत्वात्, तद्यथा- हस्तौ ममाशोकपल्लवसदृशौ तथा भुजौ करिकराकारौ परपुरंजयौ प्रणयिजनमनोरथपूरकौ शत्रुशतजीवितान्तकरौ। // 539 // यथा ममन तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगमम्, यावत्स्पर्शाः स्पर्शनेन्द्रियं ममाति ममीकरोति, याङ्कन ताहगन्यस्येति भावः, एतच्च हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसम्बन्धित्वेन विवक्षितं यत्किमपि