SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 538 // आर्याद्यानराः पर्यालोचयेत्कल्पितवानिति वा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह- इह खलु इत्यादि इह अस्मिन् भवे मम श्रुतस्कन्धः 2 वर्तमानस्यानिष्टादिविशेषणविशिष्टोदुःखातङ्कः समुत्पद्येत ततोऽसौतदुःखदुःखितोज्ञातीनेवमभ्यर्थयेत्, तद्यथा- इमं ममान्यतरं प्रथममध्ययनं पौण्डरीकम्, दुःखातङ्कमुत्पन्नं परिगृह्णीत यूयमहमनेनोत्पन्नेन दुःखातङ्केन पीडयिष्यामी(ष्य इ)त्यतोऽमुष्मान्मां परिमोचयत यूयमिति, न सूत्रम् 13 चैतत्तेन दुःखितेन लब्धपूर्वं भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां दुःखमोचनायालमिति (648) भिक्षुस्वरूप: दर्शयितुमाह- तेसिं वावी त्यादि, सर्वं प्राग्वद्योजनीयम्, यावदेवमेव नो लब्धपूर्वं भवतीति, किमित्येवं नोपलब्धपूर्वं / भवतीत्याह- अण्णस्स दुक्ख मित्यादि सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यहुःखमुत्पद्यते तदन्यस्य सम्बन्धि दुःखमन्यो- मातापित्रादिकः कोऽपि न प्रत्यापिबति, न तस्मात्पुत्रादेर्दुःखेनासोनात्यन्तपीडितात् स्वजना नापि तदुःखमात्मनि कर्तुमलम्, किमित्येवमाशङ्कयाह- अण्णेण कड मित्यादि, अन्येन जन्तुना कषायवशगेन इन्द्रियानुकूलतया / भोगाऽभिलाषिणाऽज्ञानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति- नानुभवति, तदनुभवने / ह्यकृतागमकृतनाशौ स्याताम्, न चेमौ युक्तिसंगतो, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, तथा चोक्तं- परकृतकर्मणि यस्मान्न क्रामति संक्रमो विभागो वा / तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम्॥१॥यस्मात्स्वकृतकर्मफलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह- पत्तेय मित्यादि, एकमेकं प्रति प्रत्येकं सर्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं चएकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते। तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१॥इति, तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णादिकंपरिग्रहंशब्दादींश्च विषयान् मातापितकलत्रादिकंच त्यजति, तथा प्रत्येकमुपपद्यते- युज्यते परिग्रहस्वीकरणतया, (r) पीडिताः (मु०)। ॐ तत् स एव (प्र०)। // 53
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy