________________ वृत्तियुतम् श्रुतस्कन्धः श्रीसूत्रकृताङ्गं शालिक्षेत्रादिकं वास्तु खातोच्छ्रितादिकं हिरण्यं धर्मलाभादिकं सुवर्णं कनकं धनं गोमहिष्यादिकं धान्यं शालिगोधूमादिकं श्रुतस्कन्धः 2 नियुक्तिकांस्य कांस्यपात्रादिकं तथा विपुलानि प्रभूततराणि धनकनकरत्नमणिमौक्तिकानि शंखशिल त्ति मुक्तशैलादिकाः शिलाः प्रथममध्ययन श्रीशीला पौण्डरीकम्, प्रवालं विद्रुमम्, यदिवा- सिलप्पवालं ति श्रिया युक्तं प्रवालं श्रीप्रवालं वर्णादिगुणोपेतं तथा रत्तरयणं ति रक्तरत्नं- पद्मरागा सूत्रम् 13 दिकं तथा सत्सारं शोभनसारमित्यर्थः शूलमण्यादिकम्, तथा स्वापतेयं रिक्थं द्रव्यजातम्, सर्वमेतत्पूर्वोक्तं मे ममोपभोगाय (648) || 536 // भिक्षुस्वरूपः भविष्यति, तथा शब्दा वेण्वादयो रूपाणि अङ्गनादीनि गन्धाः कोष्ठपुटादयः रसा मधुरादयः मांसरसादयो वा स्पर्शा मृद्वादयः, आर्याद्यानराः एते सर्वेऽपि खलु मे कामभोगाय, अहमप्येषां योगक्षेमार्थं प्रभविष्यामीत्येवं संप्रधार्य ॥स मेधावी पूर्वमेवात्मानं विजानीयाद्-एवं पर्यालोचयेत्, तद्यथा- इह संसारे खलुशब्दोऽवधारणे, इहैव- अस्मिन्नेव जन्मनि मनुष्यभवे ममान्यतरदुःखं शिरोवेदनादिकं आतङ्को वाऽऽशु जीवितापहारी शूलादिकः समुत्पद्यते, तमेव विशिनष्टि- अनिष्टः अकान्तः अप्रियः अशुभोऽमनोज्ञोऽवनामयतीत्यवनामः- पीडाविशेषकारी दुःखरूपो यदिवा न मनागमनाक् मे मम नितरामित्यर्थः दुःखयतीति दुःखम्, पुनरपि दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थं सुखलेशस्यापि परिहारार्थं च, नो नैव शुभः, अशुभकर्मविपाकापादितत्वादिति / अत्र च यदुक्तमपि पुनरुच्यते तदत्यादरख्यापनार्थं तद्विशेषप्रतिपादनार्थं चेति, तदेवंभूतं दुःखं रोगातङ्कंवा हन्त इति खेदे। भयात्त्रातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः! कामभोगा यूयं मया पालिताः परिगृहीताश्च ततो यूयमपीदं दुःखं रोगातङ्कं वा परियाइयह त्ति विभागशः परिगृह्णीत यूयम्, अत्यन्तOधर्मलातादिकं (प्र०)। 0 अघटितरूप्यसुवर्णमितिपर्यायः प्राचीनपुस्तके। 0 शुद्धं (प्र०)। 0 भोगा: अह० (मु०)। 7 भवे वा ममा० (मु०)। // 536