________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः 2 // 535 // श्रुतस्कन्ध:२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 13 (648) भिक्षुस्वरूप: आर्याद्यानराः यादृक्कामभोगेष्वसक्तः सन्नन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं ब्रवीमीति // अस्य चार्थस्योपदर्शनाय प्रस्तावमारचयन्नाह-प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः सन्ति भवन्ति, तद्यथा- आर्याआर्यदेशोत्पन्ना मगधादिजनपदोद्भवाः, तथा अनार्याः शकयवनादिदेशोद्भवाः, तथा च उच्चैर्गोत्रोद्भवा इक्ष्वाकुहरिवंशादिकुलोद्भवाः, तथा नीचैर्गोत्रोद्भवा वर्णापसदसंभूताः, तथा कायवन्तः प्रांशवः, तथा हूस्वा वामनकादयः, तथा सुवर्णा दुर्वर्णाः सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चार्यादीनां 'ण'मिति वाक्यालङ्कारे 'क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तूनि' खातोच्छ्रितादीनि तानि परिगृहीतानि' स्वीकृतानि भवन्ति, तान्येव विशिनष्टि-'अल्पतराणि' स्तोकतराणि वा प्रभूततराणि वा भवन्ति। तथा ते(ये)षामेव च जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः, तेषु चार्यादिविशेषणविशिष्टेषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गत्वा तथाप्रकारेषु वा कुलेषु आगम्य जन्म लब्ध्वाऽभिभूय च विषयकषायादीन् परीषहोपसर्गान् वा सम्यगुत्थानेनोत्थाय प्रव्रज्यां गृहीत्वैके केचन तथाविधसत्त्ववन्तो भिक्षाचर्यायां सम्यगुत्थिताः समुत्थिताः तथा सतो विद्यमानानपि वा एके केचन महासत्त्वोपेता ज्ञातीन् स्वजनान् (अज्ञातीन्- परिजनान्) तथा उपकरणं च कामभोगाङ्गं धनधान्यहिरण्यादिकं विविधं प्रकर्षेण हित्वा त्यक्त्वा भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणंच विप्रहाय भिक्षाचर्यायां केचनापगतस्वजनविभवाः समुत्थिताः॥येतेपूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः पूर्वमेव- प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा- इह जगति खलुक्यालङ्कारे अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय भविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रविव्रजिषुर्वा प्रवेदयति जानात्येवं परिच्छिनत्ति, तद्यथा- क्षेत्रं दीनि परि० (मु०)। भिक्षुचर्यायां (प्र०)। O र्यायामेके केचन (मु०)। O०द्रोगाय (प्र०) / 7 विषयासक्तः पुरुषो मनुते इति शेषः (प्र०) / // 535 //