SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 531 // शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविधं विधानं-अवस्थाविशेषं कुब्जकाणखञ्जवामनकजरामरणरोगशोकादिकं श्रुतस्कन्धः 2 बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा एवं पूर्वोक्तया नीत्या संगतिं यान्ति-नियतिमापन्ना नानाविधविधानभाजो प्रथममध्ययन पौण्डरीकम्, भवन्ति, त एव वा नियतिवादिनः संगइयं ति नियतिमाश्रित्य तदुत्प्रेक्षया नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो सूत्रम् 12 नो नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति- जानन्ति, तद्यथा- क्रिया-सदनुष्ठानरूपा अक्रिया तु- असदनुष्ठानरूपा इत्यादि यावदेवं (647) नियतिवादी ते नियतिवादिनस्तदुपरि सर्वं दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमारम्भैर्विरूपरूपान् कामभोगान् भोजनाय-उपभोगार्थं समारभन्त इति // तदेवमेव- पूर्वोक्तया नीत्या तेऽनार्या विरूपं नियतिमार्ग प्रतिपन्ना विप्रतिपन्नाः, अनार्यत्वं पुनस्तेषां नियुक्तिकस्यैव / नियतिवादस्य समाश्रयणात्, तथाहि-असौ नियतिः किंस्वत एव नियतिस्वभावा उतान्यया नियत्या नियम्यते? किंचातः?, तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथास्वभावत्वं किंन कल्प्यते?, किंबहुदोषया नियत्या समाश्रितया? अथान्यया नियत्या तथा नियम्यते, साऽप्यन्ययासाऽप्यन्ययेत्येवमनवस्था। तथा नियतेः स्वभावत्वान्नियतस्वभावयाऽनयाँ। भवितव्यं न नानास्वभावयेति, एकत्वाच्च नियतेस्तत्कार्येणाप्येकाकारेणैव भवितव्यम्, तथा च सति जगद्वैचित्र्याभावः, न चैतद्दष्टमिष्टं वा। तदेवं युक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते, यदप्युक्तं- द्वावपि तौ पुरुषौ क्रियाक्रियावादिनौ / तुल्यौ, एतदपि प्रतीतिबाधितम्, यतस्तयोरेकः क्रियावाद्यपरस्त्वक्रियावादीति कथमनयोस्तुल्यत्वम्, अथैकया नियत्या तथानियतत्वात्तुल्यता अनयोः, एतच्च निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणत्वात्, अप्रमाणत्वंच प्राग्लेशतःप्रदर्शितमेव, // 531 // यदप्युक्तं- यदुःखादिकमहमनुभवामि तन्नाहमकार्षमित्यादि, तदपि बालवचनप्रायम्, यतो(यत्)जन्मान्तरकृतं शुभमशुभं (r) परकारणानिरपेक्षत्वेन स्वाभाविकत्वात्। 0 एकरूपया।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy