________________ 66833 श्रुतस्कन्ध: 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 12 (647) नियतिवादी | श्रीसूत्रकृताङ्गं वे त्यादि, तथा परोऽपि यन्मांदुःखयति शोचयतीत्यादि प्राग्वन्नेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोऽज्ञो वा बाल एवं नियुक्ति विप्रतिवेदयति जानीते स्वकारणं वा परकारणं वा सर्वं दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन्न इति // श्रीशीला० वृत्तियुतम् तदेवं नियतिवादी पुरुषकारकारणवादिनो बालत्वमापाद्य स्वमतमाह- मेधा- मर्यादा प्रज्ञा वा तद्वान् मेधावी- नियतिवाद| श्रुतस्कन्ध:२ पक्षाश्रयी एवं विप्रतिवेदयति- जानीते, कारणमापन्न इति नियतिरेव कारणं सु(दुः)खाद्यनुभवस्य, तद्यथा-योऽहमस्मि दुःखयामि // 530 // शोचयामि तथा तिप्पामि त्ति क्षरामि पीडामि त्ति पीडामनुभवामि परितप्पामि त्ति परितापमनुभवामि, नाहमेवमकार्षं दुःखम्, अपितु नियतित एवैतन्मय्यागतम्, न पुरुषकारादिकृतम्, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टाः दुःखोत्पादिका क्रियाः समारभते, नियत्यैवासावनिच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, कारणमापन्न इति परेऽप्येवमेव योजनीयम्। एवं सति नियतिवादी मेधावी ति सोल्लण्ठमेतत्, स किल नियतिवादी दृष्टं पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठ्यते, स्वकारणं परकारणं च दुःखादिकमनुभवन्नियतिकृतमेतदेवं विप्रतिवेदयति- जानाति नात्मकृतं नियतिकारणमापन्ने(न्न:), कारणं चात्रैकस्यासदनुष्ठानरतस्यापि न दुःखमुत्पद्यतेऽपरस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कर्तीति / तदेवं नियतिवादे स्थिते परमपि यत्किञ्चित्तत्सर्वं नियत्यधीनमिति दर्शयितुमाह-से बेमी त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य ब्रवीमी ति प्रतिपादयामि ये केचन प्राच्यादिषु दिक्षु त्रस्यन्तीति त्रसा- द्वीन्द्रियादयः स्थावराश्च-पृथिव्यादयःप्राणाः-प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिशरीरसम्बन्धमागच्छन्ति, नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित एवानुभवन्ति, तथा नियतित एव विवेक ®दुःखोत्पादादिकाः (मु०)। एवं स नियतिवादी मेधावी स्वकारणं परकारणं च० (प्र०)। 0 सोल्लण्ठ (मु०)। 0 ०मापन्नं (प्र०)। ७०ते परस्य (मु०)। // 530 //