________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 529 // श्रुतस्कन्ध: 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 12 (647) नियतिवादी वादरूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति / स च नियतिवादी स्वाभ्युपगमंदर्शयितुमाह- इह खलु दुवे पुरिसा भवंती इत्यादि, इह अस्मिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशाद्देशान्तरावाप्तिलक्षणा पुरुषस्य भवन्ती न कालेश्वरादिना चोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि / यदि तावस्वतन्त्रौ क्रियावादमक्रियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वात्तुल्यौ, यदि पुनस्तौ स्वतन्त्रौ भवतस्ततः क्रियाऽक्रियाभेदान्न तुल्यौ स्यातामिति, अत एकार्थावेककारणापन्नत्वादिति, नियतिवशेनैव तौ नियतिवादमनियतिवादं चाश्रिताविति भावः। उपलक्षणार्थत्वाच्चास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोऽपि नियतिचोदित एव द्रष्टव्य इति // साम्प्रतं नियतिवादी परमतोद्विभावयिषयाऽऽह-बालः अज्ञः पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशेषणार्थः, तदेव दर्शयतिएव मिति वक्ष्यमाणनीत्या विप्रतिवेदयति जानीते कारणमापन्नः सुखदुःखयोः स्वकृतदुष्कृतयोर्वा स्वकृत एव पुरुषकार कालेश्वरादि कारणमित्येवमभ्युपपन्नो नान्यन्नियत्यादिकं कारणमस्तीति, तदेवाह- तद्यथा- योऽहमस्मि दुक्खामि त्ति शारीरं मानसं दुःखमनुभवामि तथा शोचामि- इष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि, तथा तिप्पामि त्ति शरीरबलं क्षरामि, तथा पीडामि त्ति सबाह्याभ्यन्तरया पीडया पीडामनुभवामि, तथा परितप्पामि त्ति परितापमनुभवामि, तथा जूरामि त्ति अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्तौ विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्षम्, परपीडया कृतवानस्मीत्यर्थः, तथा परोऽपि यदुःखशोकादिकमनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति, तदेव दर्शयति- परो ®भवति (मु०)। 00 यत्त० (प्र०)। 0 पुनरपि नियतिवाद्येव स्वपक्षमन्यथा समर्थयितुमाह प्र०।०युक्त्यन्तरोपन्यासार्थः प्र०10नः, कारणमुद्दिश्य वक्ष्यमाणाच्च कारणात् नियतिरेव की न पुरुषकारादिकमिति भावः, तदेव नियतिवादसमर्थकारणं दर्शयति, तद्यथा-योऽहं० प्र०। 0 सुकृत (मु०)। // 529 //