SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 526 // नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूपैः कर्मसमारम्भैः- नानाप्रकारैः सावधानुष्ठानैर्द्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय श्रुतस्कन्धः२ विरूपरूपान्कामभोगानुच्चावचान्समाचरन्ति भोजनाय- उपभोगार्थमित्येवमनास्तेि विरुद्ध मार्ग प्रतिपन्ना विप्रतिपन्ना न प्रथममध्ययनं पौण्डरीकम्, सम्यग्वादिनोभवन्ति, तथाहि-सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवापरान् क्रियासुप्रवर्तयते उतापरेण परण सूत्रम् 11 प्रेरितः?,तत्र यद्याद्यः पक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडुनेश्वरपरिकल्पनेन?, (646) अथासावप्यपरप्रेरितः,सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति / किञ्च असावीश्वरो ईश्वर कारणिक: महापुरुषतया वीतरागतोपेतः सन्नेकान्नरकयोग्यासुक्रियासुप्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्विति?, अथ ते पूर्वशुभाशुभाचरितोदयादेव तथाविधासु क्रियासु प्रवर्तन्ते, स तु निमित्तमात्रम्, तदपि न युक्तिसंगतम्, यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तं-अज्ञो जन्तु रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन?, तथा चोक्तं- शस्त्रौषधादिसम्बन्धाचैत्रस्य व्रणरोहणे। असम्बद्धस्य किं स्थाणोः, कारणत्वं न कल्प्यते? // 1 // इत्यादि। यच्चोक्तं सर्वं तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषत्वात् देवकुलादिवदिति, एतदपि न युक्तिसंगतम्, यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन सार्धं व्याप्त्यसिद्धेः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृत्वेनाभ्युपगमात्, न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वं सिध्यति, अन्यथाऽनुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात्, अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद्, एवं च सत्यतिप्रसङ्गः स्यात्, उक्तं च- अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित्। 0 परासु क्रियासु प्रवर्तते उता० प्रवर्तयते उता० (प्र०)। 0 0 स्ततः (प्र०)। 0 किं चा० (प्र०)। 0 पूर्वाशुभ० (प्र०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy