________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 525 // श्रुतस्कन्ध: 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 11 तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह- यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं श्रमणानां यतीनां निर्ग्रन्थानां निष्किञ्चनानामुद्दिष्टं तदर्थं प्रणीतं व्यञ्जितं- तेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा- आचार इत्यादि यावदृष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतत्वात् स्वरूचिविरचितरथ्यापुरुषवाक्यवत्, तथा नैतत्तथ्यम्, मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौरचौरत्ववत्, नैतत्तथ्यमित्यनेन तु सद्भतार्थनिह्नवो यथा नास्त्यात्मेति, तथा नैतद्याथातथ्यं- यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भतार्थनिह्नवेनासद्भूतार्थारोपणमाविष्कृतम्, तद्यथा गामश्वं ब्रुवतोऽश्वंवा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्दष्टव्यानि / तदेवं यदेतबादशाङ्गं गणिपिटकं तदनीश्वरप्रणीतत्वान्मिथ्येति स्थितम्, इदंतु पुनरीश्वरकर्तृकत्वं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् / तथेदमेव तथ्यं सद्भतार्थोद्धासनात्, तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनोवा एवं अनन्तरोक्तया नीत्या सर्वं तनुभुवनकरणादिकमीश्वरकारणिकंतथा सर्वं चेतनमचेतनं वाऽऽत्मविवर्तस्वभावम्, आत्मन एव सर्वाकारतयोत्पत्तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वन्त्यन्येषां च ते स्वदर्शनानुरक्तमनसां संज्ञा संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्ठ उपसामीप्येन तदाग्रहितया तदभिमुखा युक्तीनिनीषवः स्थापयन्ति प्रतिष्ठापयन्ति। ते चैवंवादिनस्तमीश्वरकर्तृत्ववादमात्माद्वैतवादंवानातिवर्तन्ते, तदभ्युपगमजातीयं च दुःख-दुःखहेतुत्वाद्दुःखं नातिवर्तन्ते न त्रोटयन्ति वा, अस्मिन्नर्थे दृष्टान्तमाह- यथा शकुनिः- पक्षिविशेषो लावकादिकः पञ्जरं नातिवर्तते पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवंभूताभ्युपगमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वा त्रोटयन्ति / ते च स्वाग्रहाभिमानग्रहग्रस्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्ति- न सम्यक् जानन्ति, तथा- इयं क्रियासदनुष्ठानरूपेयं चाक्रिया- तद्विपरीतेत्येवं स्वाग्रहिणो नान्यत् शोभनमशोभनं वा यावदयमनरक इत्येवं सद्विवेकरहितत्वा (r) सदसद्विवे० (मु०)। // 525 //