________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 11 (646) ईश्वरकारणिकः // 524 // शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूय- आभिमुख्येन पीडयित्वा तिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्ण्डं तिष्ठति न शरीराबहिर्भवति, एतदुक्तं भवति- यथा तत्पिटकं शरीरैकदेशभूतं न युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकर्तृका न ते ईश्वरात्पृथक्कर्तुपार्यन्ते, यदिवा सर्वव्यापिन आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्माः प्रादुष्षन्ति ते पृथक्कर्तुं न शक्यन्ते , यथा तद्गण्डं शरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीमेवावतिष्ठते, एवमेव सर्वेऽपि धर्माः पुरुषादिकाः पुरुषकारणिकाः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते-न तस्माद्बहिर्भवन्तीति,शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धम्, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्यात्माद्वैतवादस्य च सुप्रसिद्धत्वादृष्टान्तबहुत्वमित्याह- से जहा इत्यादि, तद्यथा नामारतिःचित्तोद्वेगलक्षणा स्याद्भवेत्, सा च शरीरजाता इत्यादिगण्डवन्नेया, दार्टान्तिकेऽप्येवमेव, सर्वे धर्माः पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववन्नेयं / तथा तद् यथा नाम वल्मीकं- पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां जातं पृथिवीसम्बद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभि(सं)भूय तिष्ठति, एवमेव यदेतच्चेतनाचेतनरूपंतत्सर्वमीश्वरकारणिकमात्मविवर्तरूपंवानात्मनः पृथग्भवितुमर्हति, पृथिव्या वल्मीकवत् / तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथिवीजात इत्यादि दृष्टान्तदाान्तिके पूर्ववदायोज्ये, तद् यथा नाम पुष्करिणी स्यात्- तडागरूपा भवेत्, साऽपि पृथिव्यामेव जातेत्यादि प्राग्वच्चय॑ः, तथा तद् यथा नाम पुष्कलंप्रचुरमुदकपुष्कलं- उदकप्राचुर्यं तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवाभिभूय तिष्ठत्येवं दार्टान्तिकेऽप्यायोज्यम्, तथा तद्यथा नामोदकबुद्रुदः स्याद्, अत्रापि दृष्टान्तदान्तिके, न तस्मादवयविनः पृथग्भूत इति सुगमम् // तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते (r) प्रचुरमुदकमुदकपुष्कलं (प्र०)। // 524 //