SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 518 // चरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः॥१॥इत्यादि / तदेवं सांख्याभिप्रायेणात्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याल्लोकायतिका- श्रुतस्कन्ध: 2 भिप्रायेण त्वात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः, तानि च समुदायरूपापन्नानि नानास्वभावं कार्यं / प्रथममध्ययन पौण्डरीकम्, कुर्वन्ति // तं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात्, तद्यथा- पृथिव्येका काठिन्यलक्षणा महाभूतम्, तथाऽऽपो द्रव सूत्रम् 10 लक्षणा महाभूतम्, तथा तेज उष्णोद्योतलक्षणम्, तथा वायुर्हतिकम्पलक्षणः, तथाऽवगाहदानलक्षणंसर्वद्रव्याधारभूतमाकाश- (645) पञ्चभूतवादी मित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाकारतया यस्तेषांसमवायः स एकत्वेऽपिलक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, संख्या छुपादीयमाना संख्यान्तरं निवर्तयतीतिकृत्वा न न्यूनानि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पञ्च महाभूतानि प्रकृतेर्महान् ततोऽहङ्कारस्तस्मात् गणश्च षोडशकः / तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि // 1 // इत्येवं क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि- अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रेन्द्रधनुरादिवद्विस्रसापरिणामेन निष्पन्नत्वात्, तथा न घटवत्कृत्रिमाणि, कर्तृकरणव्यापारसाध्यानि न भवन्तीत्यर्थः, तथा परव्यापाराभावतया नो नैव कृतकानि, अपेक्षितपरव्यापारः स्वभावनिष्पत्तौ भावः कृतक इति व्यपदिश्यते, तानि च विस्रसापरिणामेन निष्पन्नत्वात्कृतकव्यपदेशभाञ्जि न भवन्ति, तथा अनाद्यनिधनानि, अवन्ध्यानि-अवश्यकार्यकर्तणि, तथा न विद्यते पुरोहितः कार्य प्रति प्रवर्तयिता येषांतान्यपुरोहितानि, स्वतन्त्राणिस्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'न कदाचिदनीदृशं जगदिति वचनात् तदेवंभूतानि पञ्च महाभूतान्यात्मषष्ठानि / // 518 // पुनरेके एवमाहुः, आत्मा चाकिञ्चित्करः सांख्यानां लोकायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि (r) महान् महतोऽह० (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy