________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 519 // आत्मव्यपदेशं भजन्त इति / तदेवं सांख्याभिप्रायेण सतो विद्यमानस्य प्रधानादेर्नास्ति विनाशः अत्यन्ताभावरूपो नाप्यसतः श्रुतस्कन्धः 2 शशविषाणादेः संभवः- समुत्पत्तिरस्ति, कारणे कार्यस्य विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात्, प्रथममध्ययन पौण्डरीकम्, तथा चोक्तं- नासतो जायते भावो, नाभावो जायते सतः इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च सूत्रम् 10 मृत्पिण्डादेर्घटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्यवादः॥ तदेवमेतावानेव तावदिति सांख्यो लोकायतिको (645) पञ्चभूतवादी वा माध्यस्थ्यमवलम्बमान एवमाह, तद्यथा अस्मद्युक्तिभिर्विचार्यमाणस्तावदेतावानेव जीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वादिगुणोपचयापचयाभ्यां सर्वकार्यकर्तृणि, आत्मा चाकिञ्चित्करत्वादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत एतावानेव' भूतमात्र एव जीवकायः, तथा एतावानेव- भूतास्तित्वमात्र / एवास्तिकायोनापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति / तथा एतावानेव सर्वलोको यदुत पञ्च महाभूतानि प्रधानरूपापन्नानि, आत्मा चाकर्ता निर्गुणः सांख्यस्य, लोकायतिकस्य तु पञ्चभूतात्मक एव लोकः, तदतिरिक्तस्यापरस्य पदार्थस्याभावादिति।। तथा एतदेव पञ्चभूतास्तित्वं मुखं कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सांख्यस्य प्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तशस्तृणमात्रमपि कार्यं कुर्वन्ति, तदतिरिक्तस्यापरस्याभावादिति भावः ॥स. चैवंवाद्येकत्रात्मनोऽकिञ्चित्करत्वादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानैरप्यात्मा पापैः कर्मभिर्न बध्यत इति (मन्यते तद्) दर्शयितुमाह-'से किण' मित्यादि से त्ति स इति यः कश्चित्पुरुषः क्रयार्थी क्रीणन् किञ्चित् क्रयेण गृहंस्तथाऽपरं क्रापयंस्तथा / // 519 // प्राणिनो घ्नन्- हिंसन् तथा परैर्घातयन्- व्यापादयन् तथा पचनपाचनादिकां क्रियां कुर्वंस्तथाऽपरैश्च पाचयन, अस्य चोप© खरशृङ्गादे (प्र०)। (c) एवमेवाह (प्र०)।