________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 514 // तत्प्रज्ञापितशिष्यव्यापारमधिकृत्याह-तंसद्दहमाणे त्यादि, तं नास्तिकवाद्युपन्यस्तं धर्म विषयिणामनुकूलं श्रद्दधानाः स्वमतावति- श्रुतस्कन्धः२ शयेन रोचयन्तःतथाप्रतियन्तः अवितथभावेन गृह्णन्तः तथा तत्र रुचिं कुर्वन्तः तथा साधु- शोभनमेतद्यत् यथा स्वाख्यातो प्रथममध्ययनं पौण्डरीकम्, यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्त्तमाना: परलोकभयात्सुखसाधनेषु मांसमद्यादिष्वप्रवृत्तिं कुर्वन्तो मनुष्य सूत्रम् जन्मफलवञ्चिता भवेयुः, ततः शोभनमकारि भवता हे श्रमण! ब्राह्मण! इति वा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः, (644) राजस्वरूपादिः काममिष्टमेतदस्माकं धर्मकथनम्, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्वया वयमभ्युद्धताः अन्यथा कार्पटिकैस्तीर्थिकैचिताः स्युरि(स्यामे)ति, तस्मादुपकारिणं त्वां भवन्तं पूजयामि, अहमपि कश्चिदायुष्मतो भवतः प्रत्युपकारं करोमि / तदेव दर्शयति- तद्यथा असणेणे त्यादि सुगमं यावत्पादपुञ्छनकमि(केने)ति / तत्रैके केचन पूर्वोक्तया पूजया पूजायां वा समाउटिंसु / त्ति समावृत्ताः- प्रवीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तस्तं राजादिकं स्वदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु निकाचितवन्तो नियमितवन्तः तथाहि- भवतेदं तज्जीवतच्छरीरमित्यभ्युपगन्तव्यम्, अन्यो जीवोऽन्यच्चशरीरमित्येतच्च परित्याज्यम्, अनुष्ठानमपि एतदनुरूपमेव विधेयमित्येवं निकाचितवन्त इति // तत्र ये भागवतादिकं लिङ्गमभ्युपगताः पश्चाल्लोकायतग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषां पूर्वं आदौ प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, तद्यथा-परित्यक्तपुत्रकलत्राः श्रमणा यतयो भविष्यामः अनगारा गृहरहिताः तथा निष्किञ्चनाः किञ्चनं- द्रव्यं तद्रहिताः तथा अपशवो गोमहिष्यादिरहिताः, परदत्तभोजिनः स्वतः पचनपाचनादिक्रियारहितत्वात्, 5 // 514 // भिक्षणशीला भिक्षवः, कियद्वक्ष्यते अन्यदपि यत्किञ्चित्पापं- सावधं कर्मानुष्ठानं तत्सर्वंन करिष्यामी (मइ)त्येवं सम्यगुत्थानेनो 0 प्रतिपादयन्तः (मु०)। (r) द्यथा (प्र०)। (c) व्यामः (मु०)।