________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 513 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 9 (644) राजस्वरूपादिः कर्मसमारम्भाः- सावधानुष्ठानरूपाः पशुघातमांसभक्षणसुरापाननिर्लाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीबलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् समारभन्ते समाददति तदुपभोगार्थमिति // साम्प्रतं तज्जीवतच्छरीरवादिमतमुपसंजिघृक्षुः प्रस्तावमारचयन्नाह-‘एवं चेग' इत्यादि, मूर्तिमतः शरीरादन्यदमूर्तं ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिना भाव्यम्, अतः शरीरात्पृथग्भूत आत्माऽमूर्तो ज्ञानवत् तदाधारभूतोऽस्तीति, न चात्माभ्युपगममन्तरेण तज्जीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणं मरणमुपद्यते, दृश्यन्ते च तथाभूत एव शरीरे म्रियमाणा मृताश्च, तथा कुतः समायातोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि?, तथा 'इदं मे शरीरं पुराणं कर्मे'त्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथग्जीवास्तित्वमश्रद्दधानाः प्रागल्भिकाः प्रगल्भेन चरन्ति धृष्टतामापन्ना अभिदधति- यद्ययमात्मा शरीरात्पृथग्भूतः स्यात् ततः संस्थानवर्णगन्धरसस्पर्शान्यतमगुणोपेतः स्यात् न च ते वराकाः स्वदर्शनानुरागाच्च तमसावृतदृष्टय एतद्विदन्ति यथा- मूर्तस्यायं धर्मो नामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, नच तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धाष्टान्नाभ्युपगच्छन्ति। तथा निष्क्रम्य चस्वदर्शनविहितांप्रव्रज्यांगृहीत्वा नान्यो जीवः शरीराद्विद्यत इत्येवं यो धर्मो मदीयोऽयमित्येवमभ्युपगम्य स्वतोऽपरेषांचतं तथाभूतं धर्मं प्रतिपादयन्ति / यद्यपि लोकायतिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्य(नानां) तथाविधपरिणतेस्तदेवभिरुचितम्, अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञापयन्ति, यदिवा- नीलपटाद्यभ्युपगन्तुः कश्चिदस्त्येव प्रव्रज्याविशेष इत्यदोष इति / सांप्रतं (r) ये मण्डलवादिकाः (प्र०)। 0 प्रागल्भ्येन (मु०)। // 513 //