________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 511 // भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्मात्ते स्वमूढ्या प्रवर्तमाना एव मिति वक्ष्यमाणं ते श्रुतस्कन्धः२ नैव विप्रतिवेदयन्ति जानन्ति, तद्यथा- अयमात्माऽऽयुष्मन्! शरीरादूहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यम्, तत्र प्रथममध्ययन पौण्डरीकम्, किं दीर्घः- स्वशरीरात्प्रांशुतरः उत हूस्वः- अङ्गष्ठश्यामाकतण्डुलादिपरिमाणो वा?, तथा संस्थानानां- परिमण्डलादीनां सूत्रम् 9 मध्ये किंसंस्थानः?, तथा कृष्णादीनां वर्णानां मध्ये कतमवर्णवर्ती?, तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः?, षण्णां रसानां मध्ये राजस्वरूपादिः कतमरसवर्ती?, तथाऽष्टानां स्पर्शानां मध्ये कतमे स्पर्शे वर्तते?। तदेवं संस्थानवर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसौ, तथा केनापि प्रकारेणासंवेद्यमानोऽपि येषां तत्स्वाख्यातं भवति यथाऽन्यो जीवोऽन्यच्छरीरकमित्ययं पक्षः, तस्मात्पृथगविद्यमानत्वात्ते शरीरात्पृथगात्मवादिनो नैव वक्ष्यमाणनीत्याऽऽत्मानमुपलभन्ते / तद्यथा नाम कश्चित्पुरुषः कोशतः परिवाराद् असिं खड्गं अभिनिर्वर्त्य समाकृष्यान्येषामुपदर्शयेत्, तद्यथा- अयमायुष्मन्! असिः खड्गोऽयं च कोशः परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपदर्शयिता, तद्यथा- अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान्न भिन्नो जीव इति / अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह- तद्यथा वा कश्चित्पुरुषो मुञात् तृणविशेषात् इसियं / ति तद्गर्भभूतांशलाकां पृथक्कृत्य दर्शयेत्, तथा मांसादस्थि तथा करतलादामलकं तथा दध्नो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रस तथाऽरणितोऽग्निमभिनिर्वर्त्य - पृथक्कृत्य दर्शयेद्, एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताऽतोऽसन्नात्मा शरीरात्पृथगसंवेद्यमानश्चेति / प्रयोगश्चात्र-सुखदुःखभाक्परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपिशरीरके पृथगनुपलब्धेः, घटात्मवत्, व्यतिरेकेण च कोशखगवत्, तदेवं युक्तिभिः प्रतिपादितेऽप्यात्माभावे येषां पृथगात्मवादिनांस्वदर्शना 7 तेनैव (मु०)। (r) तथापि...प्रकारेण संवे० (मु०)। 2 // 511 //