________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 504 // तथा सह हेतुना-अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थं प्रतिपादयिष्यामि यथा ते पुरुषा अप्राप्तप्रार्थितार्थाः श्रुतस्कन्धः 2 पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरस्य तत्रैव निमज्जन्तीत्येवंरूपोऽर्थः सोपपत्तिकः। प्रथममध्ययन पौण्डरीकम्, प्रदर्शयिष्यते, तथा सह निमित्तेन- उपादानकारणेन सहकारिकारणेन वा वर्तत इति सनिमित्तं- सकारणं दृष्टान्तार्थं भूयो सूत्रम् 8 भूयोऽपरैरपरैर्हेतुदृष्टान्तरुपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि शृणुत यूयमिति // 7 // 642 // तदधुना भगवान् पूर्वोक्तस्य (643) ज्ञातार्थप्रश्ने दृष्टान्तस्य यथास्वं दान्तिकं दर्शयितुमाह कथनोपक्रमः लोयं च खलु मए अप्पाहडसमणाउसो! पुक्खरिणी बुइया, कम्मंच खलु मए अप्पासमणाउसो! से उदए बुइए, कामभोगे यखलु मए अप्पाहटुसमणाउसो! से सेए बुइए, जणजाणवयं च खलु मए अप्पाहट्ट समणाउसो! ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहट्ट समणाउसो! से एगे महं पउमवरपोंडरीए बुइए, अन्नउत्थिया य खलु मए अप्पाहटु समणाउसो! ते चत्तारि पुरिसजाया बुइया, धम्मं च खलु मए अप्पाहटुसमणाउसो! से भिक्खूबुइए, धम्मतित्थं च खलु मए अप्पाहटुसमणाउसो! से तीरे बुइए, धम्मकहं चखलु मए अप्पाहटुसमणाउसो! से सद्दे बुइए, निव्वाणं च खलु मए अप्पाहटुसमणाउसो! से उप्पाए बुइए, एवमेयं च खलु मए अप्पाहटुसमणाउसो! से एवमेयं बुइयं / / सूत्रम् 8 // ( / / 643 / ) लोकमिति मनुष्यक्षेत्रम्, चशब्द उत्तरापेक्षया समुच्चयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्याधारस्तमात्मनि आहृत्य व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन्! श्रमण आत्मना वा- मयाऽऽहृत्य न परोपदेशतः, सा पुष्करिणी पद्माधारभूतोक्ता, तथा कर्म चाष्टप्रकारम्, यद्बलेन पुरुषपौण्डरीकाणि भवन्ति तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आहृत्य अपाहृत्य वा, एतदुक्तं भवति-हे श्रमण! आयुष्मन् सर्वावस्थानां निमित्तभूतं कर्माश्रित्य तदुदकं दृष्टान्तत्वे // 504 //