________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 503 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् (642) ज्ञातार्थप्रश्ने कथनोपक्रमः तां पुष्करिणीं न प्रविशेत्, तत्रस्थ एव यत्कुर्यात्तद्दर्शयति- तस्यास्तीरे स्थित्वा तथाविधं शब्दं कुर्यात्, तद्यथा- ऊर्ध्वमुत्पतोत्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक! तस्याः पुष्करिण्या मध्यदेशात् त्वमुत्पतोत्पत, अथ तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति // 6 // 641 // तदेवं दृष्टान्तं प्रदर्श्य दान्तिकं दर्शयितुकामः श्रीमन्महावीरवर्धमानस्वामी स्वशिष्यानाह किट्टिए नाए समणाउसो!, अढे पुण से जाणितव्वे भवति, भंतेत्तिसमणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदंति नमसंति वंदेत्ता नमंसित्ता एवं वयासि-किट्टिए नाए समणाउसो!, अट्ठ पुण से ण जाणामो समणाउसोत्ति, समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं वयासी-हंत समणाउसो! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअटुं सहेउंसनिमित्तं भुजो भुजो उवदंसेमि से बेमि // सूत्रम् 7 // // 642 // ) कीर्तिते कथिते प्रतिपादिते मयाऽस्मिन् ज्ञाते उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एतदुक्तं भवति-नास्योदाहरणस्य परमार्थं यूयं जानीथ, एवमुक्तो(क्ता) भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीर ते निर्ग्रन्थादयो वन्दन्ति कायेन नमस्यन्ति- तत्प्रज्ञैः शब्दैः स्तुवन्ति वन्दित्वा नमस्यित्वा चैवं- वक्ष्यमाणं वदेयुः, तद्यथाकीर्तितं प्रतिपादितं ज्ञातं उदाहरणं भगवता, अर्थं पुनरस्य न सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्तान्निग्रन्थादीने वदेत्- हन्ते ति संप्रेषणे, हे श्रमणा आयुष्मन्तो! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवताम्, तथा विभावयामि आविर्भावयामि प्रकटार्थं करोमि, तथा कीर्तयामि पर्यायकथनद्वारेणेति तथा प्रवेदयामि प्रकर्षेण हेतुदृष्टान्तश्चित्तसन्ततावारोपयामि, अथवैकार्थिकानि चैतानि / कथं प्रतिपादयामीति दर्शयति-सहार्थेन-दान्तिकार्थेन वर्तत इति सार्थः पुष्करिणीदृष्टान्तस्तम्, (r) एवमुत्पतो० (मु०)। // 503 //