________________ श्रीसूत्रकृता नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 502 // अहं खेदज्ञः कुशल इत्यादि भणित्वा पद्मवरपौण्डरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान्, न चैतत्पद्मवरपौण्डरीकं ‘एवं' अनेन / श्रुतस्कन्धः२ प्रकारेण यथाऽनेनोत्क्षेप्तुमारब्धमेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यत इति // ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह- प्रथममध्ययनं पौण्डरीकम्, अहमंसीत्यादि जाव दोच्चे पुरिसजाए इत्ति, सुगमम् // 3 // 638 / / तृतीयं पुरुषजातमधिकृत्याह-अहावरे तच्चे इत्यादि सुगमम्, सूत्रम् 1-6 यावच्चतुर्थः पुरुषजात इति // 4-5 // ६३९-६४०॥साम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुषजातमधिकृत्याह- अथे त्यानन्तर्ये, (636-641) वापीचतुर्थपुरुषादयमनन्तरः पुरुषः तस्यामूनि विशेषणानि- भिक्षणशीलो भिक्षुः पचनपाचनादिसावधानुष्ठानरहिततया पुण्डरीकादि निर्दोषाहारभोजी, तथा रूक्षो रागद्वेषरहितः, तौ हि कर्मबन्धहेतुतया स्निग्धौ, यथा हि स्नेहाभावाद्रजो न लगति तथा निरूपणम् रागद्वेषाभावात्कर्मरेणुर्न लगति, अतस्तद्रहितो रूक्ष इत्युच्यते, तथा- संसारसागरस्य तीरार्थी, तथा क्षेत्रज्ञः खेदज्ञो वा, पूर्व व्याख्यातान्येव विशेषणानि, यावन्मार्गस्य गतिपराक्रमज्ञः, स चान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तां पुष्करिणीं तस्याश्च तीरे स्थित्वा समन्तादवलोकयन् बहुमध्यदेशभागे तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांश्च चतुरः पुरुषान् पश्यति, यत्र च व्यवस्थितानिति, किम्भूतान्?- त्यक्ततीरान् अप्राप्तपद्मवरपौण्डरीकान् पङ्कजलावमग्नान् पुनस्तीरमप्यागन्तुमसमर्थान्, दृष्ट्वा / च तांस्तदवस्थान् ततोऽसौ भिक्षुः एव मिति वक्ष्यमाणनीत्या वदेत्, तद्यथा- अहो इति खेदे णमिति वाक्यालङ्कारे, इमेल पुरुषाश्चत्वारोऽपिअखेदज्ञा यावन्नो मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकमुन्निक्षेप्स्यामःउत्खनिष्यामो, न च खलु तत् पौण्डरीकमेवं- अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यम् / अपि त्वहमस्मि भिक्षू रूक्षो // 502 // यावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेप्स्यामि- उत्खनिष्यामि-समुद्धरिष्यामीत्येवमुक्त्वाऽसौनाभिक्रामेत् / ©०पुण्डरीकान् (मु०)।