SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 501 // श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 1-6 (636-641) वापीपुण्डरीकादि निरूपणम् सामर्थ्य तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेवम्भूतविशेषणकलापोपेतोऽहं एतत् पूर्वोक्तविशेषणकलापोपेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स्यामीतिकृत्वेहागतः इति एतत्पूर्वोक्तं तत् प्रतीत्योक्त्वाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं क्रामेत्अभिक्रामेत् तदभिमुखं गच्छेत्, यावद्यावच्चासौ तदवतरणाभिप्रायेणाभिमुखं क्रामेत्तावत्तावच्च णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महांश्च सेयः कर्दमः, ततोऽसौ महाकर्दमोदकाभ्यामाकुलीभूतः प्रहीण:- सद्विवेकेन रहितस्त्यक्त्वा तीरं सुब्व्यत्ययाद्वा तीरात्प्रहीण:-प्रभ्रष्टः अप्राप्तश्च विवक्षितं पद्मवरपौण्डरीकं तस्याः पुष्करिण्यास्तस्यां वा यः सेयः- कर्दमस्तस्मिन्निषण्णो- निमग्न आत्मानमुद्धर्तुमसमर्थः, तस्माच्च तीरादपि प्रभ्रष्टः, ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमतः नो हव्वाए त्ति नाक्तिटवर्त्यसौ भवति नो पाराए त्ति नापि विवक्षितप्रदेशप्राप्त्या पारगमानाय वा समर्थो भवति / एवमसावुभयभ्रष्टो मुक्तमुक्तोलीवदनायैव प्रभवतीत्ययं प्रथमः पुरुषः, पुरुष एव पुरुषजातः- पुरुषजातीय इति // 2 // 637 // 'अर्थ'प्रथमपुरुषादनन्तरं अपरो द्वितीयः पुरुषजातः-पुरुष इति / अथवेति वाक्योपन्यासार्थे, अथ-कश्चित्पुरुषो दक्षिणादिग्भागादागत्य तां पुष्करिणीं तस्याश्च पुष्करिण्यास्तीरे स्थित्वा तत्रस्थश्च पश्यति महदेकं पद्मवरपौण्डरीकमानुपूर्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपं अत्र च'अस्मिंश्च तीरे व्यवस्थितः, तं च पूर्वव्यवस्थितमेकं पुरुषं पश्यति, किम्भूतं?-तीरात्परिभ्रष्टमनवाप्तपद्मवरपौण्डरीकमुभयभ्रष्टमन्तराल एवावसीदन्तम्, दृष्ट्वा च तमेवमवस्थं पुरुषं ततोऽसौ द्वितीयः पुरुषः तं प्राक्तनं पुरुषमेवं वदेत्अहो इति खेदे, सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यो, योऽयं कर्दमे निमग्नः पुरुषः सोऽखेदज्ञोऽकुशलोऽपण्डितोऽव्यक्तोऽमेधावी बालोन मार्गस्थो नो मार्गज्ञो नो मार्गस्य गतिपराक्रमज्ञः, अकुशलत्वादिके कारणमाह- यद् यस्मादेष पुरुष एतत्कृतवान्, तद्यथा ®वदेर्द्विकर्मकत्वादन्यं प्रत्युच्चारेऽपि वाक्यस्य कर्मणि द्वितीयाऽत्रापि, अयमित्यादिना नाम्ना निर्देशोऽप्यस्यैवं न दोषाय। 8 // 501 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy