SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 500 / / पदानि, तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि-प्रचुराणि पद्मान्येव 'वराणि' श्रेष्ठानि पौण्डरीकाणि पद्मवरपौण्डरीकाणि, श्रुतस्कन्ध:२ पद्मग्रहणं छत्रव्याघ्रव्यवच्छेदार्थम्, पौण्डरीकग्रहणं श्वेतशतपत्रप्रतिपत्त्यर्थम्, वरग्रहणमप्रधाननिवृत्त्यर्थम्, तदेवम्भूतानि बहूनि प्रथममध्ययन पौण्डरीकम्, पद्मवरपौण्डरीकाणि बुइय त्ति उक्तानि- प्रतिपादितानि विद्यन्ते इत्यर्थः, आनुपूर्येण विशिष्टरचनया स्थितानि, तथोच्छ्रितानि सूत्रम् 1-6 पङ्कजले अतिलङ्घयोपरि व्यवस्थितानि, तथा 'रुचिः' दीप्तिस्तां लान्ति- आददति रुचिलानि-सद्दीप्तिमन्ति, तथा (636-641) वापीशोभनवर्णगन्धरसस्पर्शवन्ति, तथा प्रासादीयानि- दर्शनीयानि अभिरूपाणि प्रतिरूपाणि / तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाः पुण्डरीकादि णमिति वाक्यालङ्कारे बहुदेशमध्यभागे निरुपचरितमध्यदेशे एकं महत्पद्मवरपौण्डरीकमुक्तमानुपूर्येण व्यवस्थितमुच्छ्रितं रुचिलं निरूपणम् वर्णगन्धरसस्पर्शवत् तथा प्रासादीयं दर्शनीयं अभिरूपतरं प्रतिरूपतरमिति / साम्प्रतमेतदेवानन्तरोक्तं सूत्रद्वयं सव्वावंति च णं ती त्यनेन विशिष्टमपरं सूत्रद्वयं द्रष्टव्यम्, अस्यायमर्थः-सव्वावंति त्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्मानि, तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्टं महदेकं पौण्डरीकं विद्यत इति, उभयत्रापि चः समुच्चये, णमिति वाक्यालङ्कारे इति // 1 // 636 // अथ अनन्तरमेवम्भूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याश्च तीरे तटे स्थित्वा तदेतत्पद्मं प्रासादीयादिप्रतिरूपान्तविशेषणकलापोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः एव मिति वक्ष्यमाणनीत्या वदेत् ब्रूयात्- अहमंसि त्ति अहमस्मि पुरुषः, किम्भूतः?- कुशलो। हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाड्डीनः पण्डितो धर्मज्ञो देशकालज्ञः क्षेत्रज्ञो व्यक्तो बालभावान्निष्क्रान्तः परिणतबुद्धिः // 500 // मेधावी प्लवनोत्प्ल्वनयोरुपायज्ञः, तथा अबालो मध्यमवयाः षोडशवर्षोपरिवर्ती मार्गस्थः सद्भिराचीर्णमार्गव्यवस्थितस्तथा / सन्मार्गज्ञः, तथा मार्गस्य या गतिर्गमनं वर्तते तया यत्पराक्रमणं-विवक्षितदेशगमनं तज्जानातीति पराक्रमज्ञः, यदिवा- पराक्रमः
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy