________________ श्रीसूत्रकृताई नियुक्तिश्रीशीला० वृत्तियुतम् / / 499 // सम्भावनायाम्, सम्भाव्यते पुष्करिणीदृष्टान्तः, पुष्कराणि- पद्मानि तानि विद्यन्ते यस्यामसौ पुष्करिणी स्याद् भवेदेवम्भूता, श्रुतस्कन्धः 2 तद्यथा-बहु प्रचुरमगाधमुदकं यस्यां सा बहूदका, तथा बहुः-प्रचुरः सीयन्ते-अवबध्यन्ते यस्मिन्नसौ सेयः- कर्दमः स यस्यां / प्रथममध्ययन पौण्डरीकम्, सा बहुसेया प्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहुश्वेता वा, तथा बहुपुष्कला बहुसंपूर्णा- प्रचुरोदक सूत्रम् 1-6 भृतेत्यर्थः। तथा लब्धः- प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सालब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सालब्धा (636-641) वापीयया सा लब्धास्था, तथा पौण्डरीकाणि- श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मत्वर्थीयोत्पत्तेर्बहु पुण्डरीकादि पद्मेत्यर्थः। तथा प्रसादः- प्रसन्नता निर्मलजलता सा विद्यते यस्याःसा प्रसादिका प्रासादावा-देवकुलसन्निवेशास्ते विद्यन्ते निरूपणम् यस्यां समन्ततः सा प्रासादिका, दर्शनीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथाऽऽभिमुख्येन सदाऽवस्थितानि रूपाणि- राजहंसचक्रवाकसारसादीनि गजमहिषमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साऽभिरूपेति, तथा प्रतिरूपाणि- प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति- स्वच्छत्वात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबिम्बानि क्रियन्ते(इति) सा प्रतिरूपेति, यदिवा-'पासादीया दरिसणीया अभिरूवा पडिरूव'त्ति पर्याया इत्येते चत्वारोऽप्यतिशयरमणीयत्वख्यापनार्थमुपात्ताः / तस्याश्च पुष्करिण्याःणमिति वाक्यालङ्कारे तत्र तत्रे' त्यनेन वीप्सापदेन पौण्डरीकैर्व्यापकत्वमाह, देशेदेशे' इत्यनेन त्वेकैकप्रदेशे प्राचुर्यमाह, तस्मिंस्तस्मिन्नि त्यनेन तु नास्त्येवासौ पुष्करिण्याः प्रदेशो यत्र तानि न सन्तीति, यदिवा- देशे देशे इत्येतत्प्रत्येकमभिसम्बध्यते तत्र तत्रे ति, कोऽर्थः?- देशे देशे तस्मिंस्तस्मिन्निति च, कोऽर्थः?, देशैकदेश इति, यदिवा- अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि 0 पुष्कलस्तु पूर्णे श्रेष्ठे इत्यनेकार्थोक्तेः, बहुर्वाऽत्र प्रत्ययः / // 49