________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:२ // 505 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् ज्ञातार्थप्रश्ने कथनोपक्रमः सूत्रम् 9 (644) राजस्वरूपादिः नोपन्यस्तम्, कर्म चात्र दार्टान्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दादयो विषयास्ते एव भुज्यन्त इति भोगाः, यदिवा कामा- इच्छारूपा मदनकामास्तु भोगास्तान्मयाऽऽत्मन्याहृत्य सेयः कर्दमोऽभिहितः, यथा महति पङ्के निमग्नो दुःखेनात्मानमुद्धरत्येवं विषयेष्वप्यासक्तो नात्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः साम्यमिति, तथा जनं सामान्येन लोकम्, तथा जनपदे वा जानपदा विशिष्टार्यदेशोत्पन्ना गृह्यन्ते, ते चार्द्धषड्विंशतिजनपदोद्भवा इति, तांश्चसमाश्रित्य मया दान्तिकत्वेनाङ्गीकृत्य तानि बहूनि पद्मवरपौण्डरीकाणि दृष्टान्तत्वेनाभिहितानि, तथा राजानमात्मन्याहृत्य तदेकं पद्मवरपौण्डरीकं दृष्टान्तत्वेनाभिहितम्, तथाऽन्यतीर्थिकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात्, तथा धर्मं च खल्वात्मन्याहृत्य श्रमणायुष्मन्! स भिक्षुः रूक्षवृत्तिरभिहितः, तस्यैव चक्रवर्त्यादिराजपद्मवरपौण्डरीकोद्धरणेसामर्थ्यसद्भावात्, धर्मतीर्थं च खल्वाश्रित्य मया तत्तीरमुक्तम्, तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षुसम्बन्धी शब्दोऽभिहितः, तथा निर्वाणं मोक्षपदमशेषकर्मक्षयरूपमीषत्प्राग्भाराख्यभूभागोपर्यवस्थितक्षेत्रखण्डंवाऽऽत्मन्याहृत्य स पद्मवरपौण्डरीकस्योत्पातोऽभिहित इति / साम्प्रतं समस्तोपसंहारार्थमाह- एवं पूर्वोक्तप्रकारेण एतल्लोकादिकं च खल्वात्मन्याहृत्य- आश्रित्य मया श्रमणायुष्मन्! से एतत्पुष्करिण्यादिकं दृष्टान्तत्वेन किञ्चित्साधादेवमेतदुक्तमिति // 8 // 643 // तदेवं सामान्येन दृष्टान्तदान्तिकयोर्योजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदार्टान्तिकं (तदुद्धरणार्थत्वात्सर्वप्रयासस्येति) दर्शयितुमाह इह खलु पाईणंवा पडीणं वा उदीणं वा दाहिणंवा संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोगंउववन्ना, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोत्ता वेगेणीयागोया वेगे कायमंता वेगे रहस्समंता वेगे सुवन्ना वेगे दुव्वन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिंच (r) द्वादशाङ्गं शासनं वा। 0 राख्यं भूभा (मु०)। (r) राजदार्टान्तिकयोजने हेतुदर्शनाय टीप्पणमिदमित्याभाति। // 505 //