________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 763 // (795-797) त्रसस्थावरयो गमागम ततस्ते त्रसाः स्थावरत्वेनाप्युत्पन्नाः शक्यन्ते परिहर्तुम्, न च तदस्तीत्येतद्दर्शयितुमाह- थावरकायाओइत्यादि, स्थावरकाया- श्रुतस्कन्धः 2 त्सकाशाद्विविधं-अनेकैः प्रकारैः प्रकर्षेण मुच्यमानाःस्थावरकायायुषा तद्योग्यैश्चापरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, सप्तममध्ययनं नालन्दीयम्, तथा त्रसकायादपिसर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावात्प्रतिज्ञा- सूत्रम् 72-74 लोप इत्येतत्सूत्रेणैव दर्शयितुमाह- तेसिं च ण मित्यादि, तेषां च त्रसानां स्थावरकाये समुत्पन्नानांगृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराख्यं घात्यं स्थानं भवति, तस्मादनिवृत्तत्वात्तस्येति // तदेवं व्यवस्थिते नागरकदृष्टान्तेन त्रसमेव स्थावरत्वेनायातं व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह- णण्णत्थेत्यादि, गृहपूतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा- त्रसभूतेषुवर्तमानकाले त्रसत्वेनोत्पन्नेषु प्राणिषु / दण्डयतीति दण्डः- प्राण्युपमर्दस्तं निहायपरित्यज्य प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात्स्थावरपर्यायापन्नवधेऽपिन। प्रतिज्ञाविलोपः। तथा नान्यत्राभियोगेने ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति / तथा गृहपतिचौरविमोक्षणतयेति, एतच्च भवद्भिः सम्यगुक्तम्, एतदपि त्रसकाये भूतत्वविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः। तदेवं विद्यमाने सति भाषायाःप्रत्याख्यानवाचः पराक्रमे भूतविशेषणाद्दोषपरिहारसामर्थ्य एवं-पूर्वोक्तया // 3 // नीत्या सति दोषपरिहरणोपाये ये ते केचन क्रोधाद्वा लोभाद्वा परंश्रावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति, तेषां प्रत्याख्यानं Oनागरिक० (मु०)। ॐ त्यादि, तत्र गृह० (मु०)। 0 विहाय (मु०)। 0 ये केचन (मु०)।