SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 495 // भवन्तीतियावत् / / 154 // साम्प्रतं भावपौण्डरीकप्रतिपादनाभिधित्सयाऽऽह-'ओदई त्यादि, औदयिके भावे तथौपशमिके श्रुतस्कन्ध:२ क्षायिके क्षायोपशमिके पारिणामिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषांवा मध्ये ये प्रवराः प्रधानाः तेऽपि औदयिकादयो प्रथम मध्ययन भावाः ‘त एव' पौण्डरीका एवावगन्तव्याः, तद्यथा- औदयिके भावे तीर्थकरा अनुत्तरोपपातिकसुरास्तथाऽन्येऽपि सितशत- | पौण्डरीकम्, पत्रादयः पौण्डरीकाः, औपशमिके समस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षायोपशमिके विपुलमतिचतुर्दशपूर्व नियुक्तिः |142-157 वित्परमावधयो व्यस्ताः समस्ता वा, पारिणामिके भावे भव्याः, सान्निपातिके भावे द्विकादिसंयोगाः सिद्धादिषु स्वबुद्ध्या / पुण्डरीकपौण्डरीकत्वेन योजनीयाः,शेषास्तु कण्डरीका इति॥१५५॥साम्प्रतमन्यथा भावपौण्डरिकप्रतिपादनायाह-अहवावी त्यादि, निक्षेपाः अथवापि भावपौण्डरीकमिदम्, तद्यथा- सम्यग्ज्ञाने तथा सम्यग्दर्शने सम्यक्चारित्रे ज्ञानादिके विनये तथा अध्यात्मनि च धर्मध्यानादिके ये प्रवराः श्रेष्ठा मुनयो भवन्ति ते पौण्डरीकत्वेनावगन्तव्यास्ततोऽन्येकण्डरीका इति॥१५६॥तदेवंसम्भविनमष्टधा पौण्डरीकस्य निक्षेपंप्रदाधुनेह येनाधिकारस्तमाविर्भावयन्नाह-अत्र पुनदृष्टान्तप्रस्तावे अधिकारो व्यापारः सचित्ततिर्यग्योनि-2 कैकेन्द्रियवनस्पतिकायद्रव्यपौण्डरीकेण जलरूहेण, यदिवा औदयिकभाववर्तिना वनस्पतिकायपौण्डरीकेण सितशतपत्रेण, तथा भावे श्रमणेन च सम्यग्दर्शनचारित्रविनयाध्यात्मवर्तिना सत्साधुनाऽस्मिन्नध्ययने पौण्डरीकाख्येऽधिकार इति // 157 / / गता निक्षेपनियुक्तिः, अधुना सूत्रस्पर्शिकनिर्युक्तेरवसरः, सा च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तोऽतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सुयं मे आउसंतेणं भगवया एवमक्खायं- इह खलु पोंडरीएणामज्झयणे, तस्स णं अयमढे पण्णत्ते-से जहाणामए पुक्खरिणी (c) तथौदयिके (मु०)। 0 मतिश्चतु (मु०)। // 495
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy