________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 740 / / कस्योत्तरः आर्द्रकुमार एव तन्मतमाविष्कुर्वन्निदमाह, स्थूलं बृहत्कायमुपचितमांसशोणितमुरभ्रं-ऊरणकमिह-शाक्यशासने भिक्षुक श्रुतस्कन्धः२ संघोद्देशेन व्यापाद्य घातयित्वा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विकर्त्य वा तमुरभ्रं तन्मांसंच लवणतैलाभ्यामुपस्कृत्य पाचयित्वा षष्ठमध्ययनं आईक्रीयम्, सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति // 37 // 772 // संस्कृत्य च यत्कुर्वन्ति सूत्रम् 37-42 तदर्शयितुमाह-तं भुंजमाणा इत्यादि, तत् पिशितं शुक्रशोणितसंभूतमनार्या इव भुजाना अपि प्रभूतं तद्रजसा- पापेन कर्मणा (772-777) न वयमुपलिप्यामह इत्येवं धाष्टोपेताः प्रोचुः अनार्याणामिव धर्मः- स्वभावो येषां ते तथा अनार्यकर्मकारित्वादनार्या बाला आर्द्र इव बाला विवेकरहितत्वाद्रसेषु च-मांसादिकेषु गृद्धा अध्युपपन्नाः // 38 // 773 // इत्येतच्च तेषां महतेऽनायेति दर्शयति-ये चापि रसगौरवगृद्धाःशाक्योपदेशवर्त्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतंघृतलवणमरिचादिसंस्कृतं पिशितंभुञ्जते अश्नन्ति तेऽनार्याः पापं कल्मषमजानाना निर्विवेकिनः सेवन्ते आददते, तथा चोक्तं-हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद्वीभत्संरुधिराविलंब कृमिगृहं दुर्गन्धि पूयादिम् / शुक्रासृक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः?॥१ अपिच-मांस भक्षयितोऽमुत्र, यस्य मांसमिहाम्यहम् / एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः // 2 // तथा / योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् / एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते॥३॥ (ग्रन्थाग्रं 12000) तदेवं महादोषं मांसादनमिति मत्वा यद्विधेयं तदर्शयति- एतदेवंभूतं मांसादनाभिलाषरूपं मनः-अन्तःकरणं कुशला निपुणा मांसाशित्वविपाकवेदिनस्तनिवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः,आस्तां तावद्भक्षणम्, वागप्येषा यथा 'न मांसभक्षणे दोष' इत्यादिका भारत्यप्यभिहिता- उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति, तन्निवृत्तौ चेहैवानुपमा / श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति, तथा चोक्तं-श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गतिं, ये कुर्वन्ति शुभोदयेन विरतिं // 740 //